________________
am taimalamiania
श्रीजैन कथासंग्रहः
॥श्रीदेवकुमार
चरित्रम् ।।
EIR RIE
॥२०॥
स तां प्राह व्यलापीर्मा, योकमपि मौक्तिकम् । याति चेत्तद्ददेऽहं ते, क्षारं स्फुटय वाससा ॥ २४२ ॥ सर्वा गृहाण मुक्ताः स्वाः, हृदि स्मरशराहते । गलितो भूभृदादेशः, तस्य तद्गतचेतसः ।। २४३ ॥ तया तथाऽथ वीजित्वा, दूरं क्षारोऽपसारितः । यथाऽपतन्नदीतीरे, मुक्ताः सर्वास्ततोऽग्रहीत् ।। २४४ ॥ कल्ये प्रदाय ते मूल्यं, ग्रहीष्याम्यङ्गुलीयकम् । उक्त्वेति दत्त्वा ताम्बूलं व्यसृजत्तां भटैः सह ॥ २४५ ॥ ते प्रविश्य पुरद्वारे, निवृत्ता अथ च प्रगे। गतो नृपसभं दत्तसूनुर्नत्वा न्यविक्षत ।। २४६ ॥ तलारक्षोऽपि सम्प्राप्तः, प्रस्तावे च व्यजिज्ञपत् । नैव कोऽप्यागमद्देव ! तत्र मे वसतः सतः ॥ २४७ ॥ तथाऽपि कश्चिदायात इति पृष्टः स भूभुजा । कमलश्रीव्यतिकर, प्राह भूपस्ततोवदत् ॥ २४८ ॥ कमलश्रीन सा तेन, तादृगात्मा तु दर्शितः । चेन्न प्रत्येषि तत्साऽत्र समाकार्याऽपि पृच्छ्यताम् ।। २४९ ॥ सा पृष्टा प्राह कल्येऽहं, न गता स्वगृहादहिः । गृह्णामि दिव्यमत्रार्थे, नरनाथस्ततोऽवदत् ॥ २५० ॥ प्रत्ययो मे तलारक्षप्रत्ययार्थ तु भाषितः । श्रेष्ठिसूः प्राह मुष्टो य-दाऽऽरक्षोऽन्यस्य का कथा ? ॥ २५१ ॥ व्यचिन्तयत्तलारक्षः कथं लप्स्येऽङ्गुलीयकम् ? । विलक्षे च नृपे प्राहैक उपायोऽस्ति तद्विदे ॥ २५२॥ पिण्डदानं गृहे यस्य, निश्चयेन स तस्करः । सर्वत्रऽऽरक्षपुरुषा, अथ लग्ना निरीक्षितुम् ॥ २५३ ॥ प्राह देवकुमारोऽम्बां किञ्चित्प्रगुणमस्ति किम् ?। दित्साम्याहारमन्धानां, दुःस्थानामस्ति साऽवदत् ॥ २५४॥
HEMEIRETREERatl
RRRRRRE
REE
॥२०॥