________________
श्रीजैन कथासंग्रहः
॥श्रीदेवकुमार चरित्रम्॥
॥१९॥
群群群群排非非非非非非非非
MININNERRRRRIANRNINNNNN
ग्रामग्रामात्समागत्य, सायमुत्तीर्य चापगाम् । प्रलम्बमुक्तामालेन, तेनात्मा प्रकटीकृतः ॥ २२९ ॥ तां वीक्ष्य पत्तयस्तस्य, प्रभोराख्यत्स चादिशत् । इहाऽऽनयत तां वीक्ष्य, तलारक्षोऽवदन्मुदा ॥ २३०॥ महोत्सवमयी रात्रि विनी मे त्वदागमात् । कथं स्वामिनि! सञ्जातोऽधुना युष्माकमागमः ?? ॥२३॥ सोचे ग्रामेऽत्र देवीष्टयात्रां कर्तुमहं गता। तां नत्वा वलमानाऽत्र, प्राप्ता मार्गवशात्ततः ॥२३२॥ ततो मामनुजानीहि, गन्तुं शक्ता न निश्यहम् । सालङ्कारा निस्सहाया, धास्यत्यम्बाऽधृति तथा ॥ २३३ ।। देवीनिमित्तको ब्रह्माभिग्रहोऽस्त्यद्य मे प्रिय ! । वज्राऽऽहत इव प्राह, तलारक्षोऽथ तामिति ॥ २३४ ।। कोत्कण्ठितोऽहं व त्वं च, जाताद्य ब्रह्मचारिणी। तथापि निर्विनोदोऽहं, क्षणार्थ तिष्ठ मेऽन्तिके ॥२३५।। कालं कियन्तमप्यस्तु, द्यूतक्रीडा त्वया सह । सहायांस्ते च दास्यामि, पश्चादहमितः प्रिये ! ॥ २३६ ॥ तथेत्युक्ते तया तेन, क्षारस्योपरि दापितम् । द्यूतस्य फलकं सारैः समारब्धं च खेलितुम् ॥ २३७ ॥ तस्यास्तेनाङ्गुली मुद्रारत्नं सन्मूल्यमर्पितम् । तया तु मुद्रिकामात्रं, क्रीडन्त्या विजितश सः ॥ २३८ ॥ ततो यास्याम्यहमिति, बदन्ती यावदुत्थिता । तावत्तेन धृता चेलाञ्चले हारे करोऽलगत् ॥ २३९ ॥ तयाऽथ लाघवेनाशु, छित्त्वा मुक्तालतां स्वयम् । तस्या बाष्पाच मुक्ताच, समकालं ततोऽपतन् ॥२४०।। व्यलापीच्च कथं क्षारे, मुक्ताः प्राप्या मयाऽधुना। दास्ये किमुत्तरं मातुः, किमत्राहं हहाऽऽगता!॥२४१।।
॥१९॥