SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः AiR॥श्रीदेवकुमार चरित्रम् ।। Hei ॥१८॥ MIRMIRMIRRRRRRRRIERIERRRRRRRRRI MIRRIRAMIRMIRRRRRRRRRRRRRRRRR फेत्कुर्वन् कबन्धं तदादायाऽगाच्च दूरतः ।। २१५॥ नदीपूराऽऽगतैः काष्ठैरग्निं दत्त्वा घटस्थितम् । उषित्वा च वने प्रातः, प्रक्षाल्याकंगतो गृहम् ॥ २१६ ॥ परिधाय प्रधानानि, वसनानि नृपौकसि। गत्वा नत्वा च राजानं, यथास्थानं न्यविक्षत ॥२१७॥ अथ प्रगे समागत्य, भटा भूपं व्यजिज्ञपन् । अर्धरात्रेऽभ्यगान्मारिः, साऽस्माभिर्न खलीकृता॥ २१८॥चौर एव परं ज्ञेय, इति बुद्ध्या तथा पुनः । शवानां मध्यतः स्थित्वा, गतं दूरतरं भुवम् ।। २१९ ॥ तयाऽनिर्वालितस्तत्र, वयं व्यावृत्य चागताः । यावतीक्षामहे तावत्तत्कबन्धं न दृश्यते ॥ २२०॥ बहुष्वपि तदादायि तया केनापि हेतुना। भवद्भिीरुभिर्जातः स्तेनो मारिधिया हि सः ।। २२१॥ चिराज्जातं भटत्वं च, इत्युक्त्वा मेदिनीभुजा। ते सर्वेऽपि विदधिरे, रुषा विषयताडिता: ॥ २२२ ॥ ॥ युग्मम् ॥ अथ पृष्टस्तलारक्षः, प्राह प्रापि मयापि न । अथामात्योऽवदद्देव तस्करः स महामतिः ॥ २२३ ॥ राज्यसारमुपादायाद्याप्येवं यो विजृम्भते । तद्रक्षा रक्ष्यते देव ! स्तेनः सोऽब्धये दास्यति ॥ २२४ ॥ रक्षारक्षाकृते मापस्तलारक्षमथादिशत् । प्राह दत्तसुतो देव! विशुद्धा मन्त्रिणो मति: ॥ २२५ ॥ अथ स्वयं तलारक्षो, रक्षाया रक्षणोद्यतः । कृतवासः सुशय्यास्थो, रक्षाकूटान्तिकेऽवसत् ॥२२६ ॥ तत्रैव तस्थुषस्तस्याहोरात्रत्रितयं गतम्। दृष्टस्तत्र न कोऽपीति, भग्नोत्साह इवाऽभवत्॥२२७॥ तुर्यायथ तलारक्षप्रतिबद्धपणस्त्रियः । कमलश्रीनामिकाया रूपं गुटिकया व्यधात् ॥ २२८ ॥ ॥१८॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy