________________
श्रीजैन
कथासंग्रहः
32॥श्रीदेवकुमार
चरित्रम् ।।
॥१७॥
चौराप्त्युपायं को वेद, देवादपरमीदृशम् ? ॥ २०३ ॥ तद्रक्षणकृते भूपः, स्वभटानादिशत्ततः । ग्राह्यस्तत्रागता स्त्री वा, पुमान्वेति सुशिक्षयन् ॥ २०४ ॥ चौरबुद्धिप्रयोगेण, जनः सर्वश्चमत्कृतः । तं सर्वत्र नृपादेशात्तलारक्षोऽप्यशोधयत् ॥ २०५॥ सोऽर्धरात्रेऽथ चित्राङ्गः, 'खटीगैरिककजलैः । कपिलोमाधिकश्मश्रुः, 'कपर्दाऽऽभरणाञ्चितः ॥ २०६ ॥ कण्ठलम्बितनिम्बस्त्रक्, बहिबावतंसकः। शुक्तिखण्डप्रकटितदंष्ट्रायुग्मभयङ्करः ॥ २०७ ।। स्कन्धद्वितयविन्यस्तप्रज्वलद्दीपपञ्चकः । सशब्दपादुकायुग्मविन्यस्तचरणद्वयः ॥ २०८ ॥ शीर्षन्यस्तबहुच्छिद्रान्त-दीपघटभीषणः । पिशाचशां फेत्कारैः, कुर्वन् मुकुलकुन्तलः ॥२०९॥ उड्डामरडमरकथ्वानेन ध्वनयन्नभः । भापयन्नपि भूजानिपटानां प्रकटोऽभवत् ॥ २१० ॥ ॥ पञ्चभिः कुलकम् ॥ तं वीक्ष्य तेषां चित्तानि, सचिन्तानि चकम्पिरे । अमन्त्रयन्त्रदो भीम, भूतमायाति किञ्चन ॥ २११॥ प्रत्यक्षा मारिरेवैषा, हेलाग्रसनलालसा । तन्नश्यते खलीकर्तु, न युक्ता जीवितेच्छुभिः ॥ २१२ ॥ इयतां च पुनर्दण्डं, नृपोऽपि न करिष्यति । अदण्ड्यं हि सहस्रं स्यादेकः प्राहाऽथ बुद्धिमान् ॥ २१३ ॥ दूरे भूत्वाऽऽस्थ मौनेन, स्यात्कलको हि नश्यताम् । केनापि मृतकेनेयं, मारिस्तृप्तिमवाप्स्यति ॥ २१४ ॥ तेऽथ वृक्षान्तरे भूत्वा, तस्थुनिश्चलविग्रहाः । स १खडी। २ कोडी।
॥१७॥
HEREIN