________________
rianimaigan
श्रीजैन
कथासंग्रहः
॥श्रीदेवकुमार चरित्रम् ॥
-
॥१६॥
CES
IN
भूतलेऽमुचत् ।। ८९॥ मट्टकं स्फुटितं त्यक्तं तक्रं चक्रन्द सोऽथ च । हा! मातुर्गृहमागत्य, प्रदास्याम्युत्तरं किमु ? ॥ ९॥ सा मध्यस्थैरथाप्रच्छि, केन रोदिषि हेतुना ? | सा प्राह तक्रं विक्रेतुं ग्रामादस्मि समागता॥ ९१॥ किमेष प्रेक्ष्यते लोक इति पृष्टो रुषाऽसकी। मांप्रेर्याऽपातयन्माता, तन्मां निःसारयिष्यति ?॥ ९२ ॥ ततः कस्य गृहे गत्वा शयनासनभोजनम् । करिष्येऽहं दुःखितायाः कश्च सारां करिष्यति ? ॥९३॥ हा! हा! तातवियोगेन, जाताऽहं दुःखभाजनम् । करोति को मम त्राणं ममाधारतयाऽधुना? ॥१४॥ विलपन्तीमिति प्रेक्ष्य, तां मध्यस्था जना जगुः। तलारक्षं तक्रममूल्यमस्याः प्रदीयताम् ॥१५॥ वराकी निर्धनेयं यद् भोजनेऽपि ससंशया। तद्देहि कृपया किञ्चिद् याति स्वस्थानके यथा ॥ १६ ॥ इति तैर्भण्यमानोऽयमदान्मूल्यं कृपावशात् । गतश्च कृतकृत्योऽयं, गुटिकामाकृषन्मुखात् ॥ ९७ ॥ पितुर्मृते: शुचं सन्धापूरणाच्च मुदं दधन् । अपराहे नृपस्थाने, जगाम पुनरेव सः ॥ ९८ ॥ आरक्षकेषु पृष्टेषु, नृपेणैको व्यजिज्ञपत् । तक्रविक्रायिकावृत्तं, नृपोऽथ प्राह तान् प्रति॥ ९९॥ हता यूयं यतो नायं, प्रकटं विलपन्निति । चौरः स्त्रीवेषभृजातः, कैतवेन विमोहिताः ॥ २००॥ न केवलं च चक्रन्द, युष्मानेष मुमोष च । तक्रमट्टकमूल्यानि, गृहन् प्रत्यक्षमेव वः ॥ २०१॥ स एव मतिमान् चौरः, छद्यसत्यं चकार यः । सन्धामपूरयच्च स्वां, कबन्धं नयताधुना ॥ २०२॥ श्मशाने स प्रदाताऽग्नि-मथ श्रेष्ठिसुतोऽवदत् ।
NEERIT Baaaaaaaa
॥१६॥