SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः 0॥श्रीदेवकुमार चरित्रम् ।। HE ॥१५॥ मन्त्रिमुख्यं नृपः प्राह, येनैवं स्वधिया कृतम् । स कर्ता रोदनं येन, द्वौ बदन्तौ श्रुतौ मया ॥ ७६ ॥ तदुत्पाट्य कबन्धोऽयं सिंहद्वारे विमुच्यताम् । यश्च रोदिति स ग्राह्यस्तलारक्षेण तत्क्षणम् ॥ ७७ ॥ प्राह देवकुमारोऽथ देवः सुन्दरमादिशत् । चौरस्तु निशि कर्ततत्तन्निश्यादिश्यतां बहु ॥ ७८ ॥ ततो नृपस्तलारक्षमादिदेश विशेषतः । रजन्याः समये सर्व परिभाव्यमिदं त्वया ॥ ७९ ॥ तलारक्षो नृपादेशं जगृहे स्वगृहे स तु । गतो दत्तसुतो दथ्यौ, सिंहद्वारे नरेशितुः ॥ ८०॥ प्रत्यक्षं पौरलोकस्य, कृत्वा रोदनकक्रियां । नृपं विलक्ष्यतां नेष्ये, प्रतिज्ञामिति हृद्यधात् ॥ ८१॥ तत्रोपायं विचिन्त्यैष, नगरस्य गतो बहिः । वृद्धामपश्यदायाती, तक्रविक्रयकारिणीम् ॥ ८२॥ तामूचे लभ्यते तक्रं, मट्टकेन समन्वितम् ? आमेत्युक्ते तया मूल्यं तस्यै सोऽभ्यधिकं ददौ॥८३॥ दिगालोकं विधायाथार्पयित्वा वाससी निजे । तस्याः कम्बलकान्यल्पमूल्यान्यादाय च स्वयम् ॥ ८४ ॥ हृष्टां तां प्रेष्य च ग्रामे, निक्षिप्य गुटिका मुखे। तक्रविक्रायकरूपेणेक्ष्यमाणः पुरीजनैः॥८५॥ सिंहद्वारस्थितं लोकं, मिलितं वीक्ष्य सोऽवदत् । निर्भयं लभ्यते तक्रं, लभ्यते तक्रमुच्चकैः ॥ ८६ ॥ पत्तिमेकमपृच्छच, किमेष निखिलो जनः । पश्यत्यादरतस्तथ्यं, कथ्यतां तन्ममाग्रतः॥८७॥ स तु तद्रक्षणव्यग्रस्तस्य नोत्तरमप्यदात् । परः पुनः पुनः पृच्छन्विरामं भजतिस्मन॥८८॥परतः स्फिटरेरंड इत्याक्रोशवचः कृथा। तेन स प्रेरितो गाढमात्मानं ॥१५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy