________________
Mani
श्रीजैन कथासंग्रहः
an श्रीदेवकुमार
चरित्रम् ॥
Banninaianiamin
॥१४॥
यशःशरीरं मे, न याति चिरपालितम् ॥ ६२ ॥ सुतः प्राह कथं कुर्वे, तातघातजपातकम् । ग्रन्थिस्थं स्वमुखेऽक्षेप्सीदथ तालपुटं विषम् ।। ६३ ॥ तं मत्वा मृतमध्यायत्पुत्रो धिग् मम जीवितम् । हन्मि क्षुरिकयाऽऽत्मानं, तदहं पापकारिणम् ।। ६४ ।। द्वयोरप्यथ मृतयोः, को नौ वहिं प्रदास्यति ?। मृत्यु प्राप्स्यति माताऽपि, विदीर्णहृदया क्षणात् ॥६५॥ जनो वक्ष्यति नि:स्वत्वात्, चौर्य द्वावपि चक्रतुः। तन्निर्मलस्य तातस्य, कलङ्को मा भवत्वयम् ॥ ६६ ॥ श्यामास्यता सतां मा भूहुर्जनानां च हास्यता। कायच्छायेव दुर्लया, भविनां भवितव्यता॥ ६७॥ चौर्य ताताऽऽगमो भूपप्रबोधः कथमन्यथा ?। तातं विना च किं रात्नैः पादैस्त्यक्त्वा व्रजामि तान् ॥ ६८॥ किन्तु तातमृतेरेते, हेतुर्ग्राह्यास्ततो मया। करोमि चामिसंस्कारं, तातशीर्षस्य सम्प्रति ॥६९॥ध्यात्वेत्यात्तशिरःपादत्रयः स गृहमागमत् । राज्ञाऽऽकृष्टे कबन्धस्तु, केवलो ददृशे दृशा॥७०॥ स तु पादत्रयं गुप्तं, न्यस्य शीर्षस्य पूजनं । कृत्वा ज्वलनसंस्कार, विदधे तत्क्षणादपि ॥७१ ॥ स च तातो गतो ग्राममित्यम्बापुरतोऽवदत् । दिनानां कतिपयानां, पर्यन्ते च समेष्यति ॥७२॥ राजा च प्रातरास्थाने, तन्मन्त्रिपुरतोऽवदत् । विस्मितास्ते जगुर्देव ! सिद्धोऽवश्यं स तस्करः ॥७३॥ दुष्प्रवेशे च सौधेऽत्र, सन्धिच्छित्कथमन्यथा?। पल्यापादत्रितयं, कथं हरति चाऽन्यथा ?॥७४॥ दत्तपुत्रोऽपि वृत्तान्तं, ज्ञातुं नृपगृहं गतः। प्रणम्य च पितुः स्थाने, न्यविक्षत विचक्षणः ।।७५॥
40
॥१४॥