________________
FE
श्रीजैन कथासंग्रहः
॥श्रीदेवकुमार चरित्रम् ॥
॥१३॥
च सोऽच्छिनत् ॥ ४८ ॥ प्रविष्टश्चैककं भूपं, पल्यवस्थमुदैवत । पल्यपादानद्राक्षीच्चाऽनर्घ्यमणिनिर्मितान् ॥ ४९ ॥ समग्रस्यापि राज्यस्य, सारभूतानिमानयम् । जिघृक्षुरेकमाकृष्य, तत्र वेत्रासनं ददौ॥५०॥ द्वितीयं च तृतीयं च, स एवं पादमग्रहीत् । श्रेष्ठी तु प्रविशन्तं तं, वीक्ष्य भीतो व्यचिन्तयत् ॥५१॥ अद्यावसानकालो मे, देवीवाक्यं हि नाऽन्यथा। यत्तदोत्सुकचित्तेन, दुष्पुत्रोऽयं मयाऽर्थितः ॥५२॥ अनेन प्रथमं तावत्, द्रव्यं मम विनाशितम् । बहिः प्राणाः परप्राणानधुना नाशयिष्यति ॥५३॥ प्राप्ते नृपनरैरस्मिन्, प्रातलॊकस्य पश्यतः । अस्माकमन्वयोच्छेदो, भविता किं करोमि तत् ? ॥ ५४॥ मम दूरस्थितस्यैष, प्रविष्टः सहसाऽपि हि। ततो निवर्तयाम्येनमिति स प्रविविक्षति ॥५५॥ अपद्वारे स प्रवेष्टुमसमर्थों गतागतम् । कुर्वन् धृष्टत्वमालम्ज्य, प्राविक्षद्वीक्षितुं सुतम् ॥ ५६ ॥ खातद्वारे च पल्यापादत्रितयवीक्षणात् । दध्याविहास्ति दुष्पुत्र इति नाम्ना तमाह्नत ॥ ५७॥ स दृष्टश्च सुतेनाह, त्वं निवर्तस्व पापतः । स प्राह जातमेवैतत्तात! वाच्यं न किञ्चन ॥५८॥ ताते मध्यागते तुर्य, पादं गृहाति यावता। सुतस्तावन्नराधीशः, प्राप निद्रादरिद्रताम् ॥ ५९॥ शस्त्री यावन्नृपो लाति, तावदृक्षत्वतः सुतः। ययौ सन्धेर्बहिः श्रेष्ठी, शीर्ष कृत्वा बहिः पुनः ॥ ६० ॥ निर्याति यावता तावत्पादयोपतिर्दधौ । दोष्णोदेवकुमारस्तु, निर्याति स तथाऽपिन॥६१ ।। दत्तः प्राह सुतं छित्त्वा, शिरो मे नश्य वेगतः । यथा
॥१३॥