SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्री धन्यकथानकम्। देवानिःश्रीकं लज्जमानकम् । अन्यस्मानगरात्तत्र कुलमेकमबागमत्॥६॥ तत्रैको दारको दाता विनीतच स्वभावतः । लोकानां वत्सरूपाणि चारयामास वृत्तितः ॥ ७॥ कस्मिंश्चिदुत्सवे-ऽन्येचुरुधाने तेन पूर्जनः । ददृशे प्रवराहाराभ्यवहारपरायणः॥८॥ तत्रैव वत्सरूपाणि मुक्त्वा गत्वा गृहेऽथ सः । चे मातः ! क्षणे झस्मिन् भक्ष्यं किञ्चित्प्रयच्छ मे ॥९॥ तयोक्तं क्रियते वत्स ! भक्ष्यं द्रव्यादृते कथम् ? । स पुनः स्माह हे मातर्विधेह्येतद्यथा तथा ॥ १०॥ यदुक्तम्-चोरा बल्लका वि य दुजण विजाय विप्प पाहुणया। नच्चणि धुत्त नरिंदा परस्स पीडं न याणंति ॥ ११ ॥ प्रार्चिता तेन साऽत्यर्थमर्थसामर्थ्यवर्जिता । पौरस्त्यमर्थसाथै स्वं स्मृत्वाऽरोदीद् दुःखादिता ॥ १२ ॥ अथैयुः प्रातिवेश्मिक्यः श्रुत्वा तद्रुदितं दुतम् । तदुःखदुःखितास्तास्तामप्राक्षुः दुःखकारणम् ॥ १३ ॥ यथास्थितमथाचख्यौ साऽप्यासां शोकगद्गदा। दयालु()भिस्ततस्ताभिस्तस्यै क्षीरादिकं ददे॥१४॥ संस्कृत्य पायसं सार्थ खण्डाज्याभ्यां सुतस्य सा। परिवेष्य गृहस्यान्तर्ययौ कार्येण केनचित् ॥ १५ ॥ इतच सुकृतस्तस्याकृष्टवत्तद्गृहाङ्गणे । आगामुनिमहानेको मासक्षपणपारणे ॥ १६ ॥ दृष्ट्वा वृष्टिमिवानां सोऽर्भको भूरिभक्तिभाक् । अदभ्रं पुलकं बिभ्रदभ्युत्तस्थौ ससंभ्रमम् ॥ १७॥ पाणिभ्यां पायसस्थालं समुत्पाट्य पटिष्ठवाक् । वाचंयममुवाचैवमानन्दोदकपूर्णहक्॥१८॥ सद्वित्तचित्तपात्राणां , ॥शा
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy