________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
RAMATLAnemenangeena
hthaEER
च पुस्तकमेवाऽऽधारः । ततो येन पुस्तकक्षेत्रं सत्यापितं तेन सर्वाणि पुण्यक्षेत्राणि सर्वे च पुण्यविधय: . सत्यापिताः इत्यादि श्रुत्वा सोम-सोमचियो धनश्रेष्ठिना सहोपवासं कृत्वा गृहं गत्वा स्वद्रव्यसामर्थ्येन सर्वपुण्यक्षेत्रमुख्यं पुस्तकपुण्यक्षेत्रमेवाराध्यन्ते। इति पर्यालोच्य प्रातः स्वधनेनैष सिताघृतपायसं योगं कृत्वा मिथ: स्थाले परिवेष्य यावद्भोक्तुमुपविशतस्तावन्मासक्षमणसाधु समेतं वीक्ष्य सम्यग्भावतया तस्मै पायसं दत्त्वा भोगफलमर्जयतः स्म । ततः षोडशदीनारैः सोमो द्वादशदीनारैः सोमश्री: पुस्तकं लेखयामासतुः । प्रान्तकाले द्वावप्यनशनतो मृत्वा सौधर्मदेवलोके स्वर्गसुखानि भुक्त्वा सोमो भवानवतीर्णः सोमश्रीश्च सौभाग्यमञ्जरीति । पुस्तकानामाशातनाकरणान्मूोऽभूत् । अथ च पुस्तकलेखनपुण्यात्वोडशमासैौतसर्वकश्मलोऽतीव विद्वान् भविष्यसि इति केवलिवचः श्रुत्वा पादयोर्लगित्वा भगवन् ! अज्ञानतः कृतज्ञानाऽऽशातनायाः प्रायश्चित्तं देहि इति कुमारेण विज्ञप्ते केवली प्रोचे- कुमार ! सम्प्रति मध्यमद्वाविंशतितीर्थकरवारके ऽष्टमासिकं निर्मलं तपस्तच्च षोडशमासैरकान्तरोपवासैर्विधेहीति । अत्रान्तरे तत्र स्थिता सरस्वती देवताऽवोचत्- चतुरो ज्ञानकोशान् कारय यथा विशेषलाभः स्यात् । तावन्मन्त्रिणोक्तम्- देवि! धर्मान्तरायकृदेष वादसमुद्रः कथं तार्यः ? देव्योक्तम्- श्रीवज्रनाभकेवलिप्रसादानिश्चितैर्भाव्यम् । सर्वमहं जाने । किञ्च सौभाग्यमञ्जर्याः सौधे
॥४९॥