________________
श्रीजैन कथासंग्रहः
राजहंसी स्वयंवरे पाञ्चालीवादोमारूपिणीति सर्वं तापस्याराधितो यक्षोऽकार्षीत् । अथ सम्यक्त्वमूलं श्राद्धधर्म भजस्व यथा सर्ववाञ्छितसिद्धिः स्यात् । ततः कुमारः सपत्नीकः केवलीपार्श्वे तं प्रतिपद्य स्वसैन्यं ययौ । केवली लोकप्रतिबोधाय विजहार । तावत्प्राप्ताः काश्मीरदेशात्पण्डिताः पूर्वमाहूताः सर्वेऽपि विख्याता भूभुजः । निष्पन्नो वादमण्डपः । सौभाग्यमञ्जरी परपुरुषं स्वप्नेऽपि नेच्छति । परं यो हारयिष्यति स यावज्जीवमन्यस्य सेवां विधास्यति इति पणो जातः । भव्यदिने मिलिताः सभ्याः, निविष्टा मञ्चेषु भूपाः । उपवेशिता पण्डिताः । जातो वादः । सरस्वतीप्रसादाज्जीतं कामदेवेन । जयजयारवः । भूषितं यशसा विश्वम् । ततः सेवकीभूतैः कालादिभिः सह महोत्सवपुर: सञ्चलितः स कुमारः स्वपुरं प्रति । अथ राजा श्रीसूरदेवः स्वपुत्रस्य कीर्ति श्रुत्वाऽतीव हृष्टोऽविच्छिन्नप्रयाणैः आसन्नाऽऽगतस्य सन्मुखो जगाम । कुमारो भूतललुठन्मौलिस्तातं ननाम । अथो मिथोचितकथादिरङ्गे जायमाने पुरे च प्रत्यासन्नीभूते राजा प्रवेशोत्सवविधापनाय पुरो भूत्वा पुरं ययौ । कुमारः सरस्तीरे ससैन्यः स्थितः । चन्द्रलेखा कदलीवने क्रीडार्थ गता सुवर्णपिच्छं केकिनं दृष्ट्वा कुमारायाकथयत् । कुमारोऽपि कौतुकाक्षिप्तचेताः शनैः शनैस्तत्र गत्वा लीलयोत्प्लुत्य यावन्मयूरमारुरोह तावत्केकी सहसोत्पपात । एष यात्येष यातीति क्षणादृश्योऽभूत् । तदा चांस्तङ्गतो रविः । प्रसृतं विश्वे तमः शोकेन
कामदेव नृपति
कथा ।
॥५०॥