SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः चाहङ्कारत्यागेन भक्तपानादिशुश्रूषयाऽमीभिरेतत्फलं प्राप्तमित्यवादीत् । तच्चाकर्ण्य ते राजपुत्रा यद्येकस्य ज्ञानस्याऽऽराधनादेतत्फलं जातं तदा ज्ञानदर्शनचारित्राणां सम्पूर्णाऽऽराधनाच्छाश्वतसुखावसानं फलं भावीति तीव्रसंवेगात्कथमपि पितरावापृच्छ्य सान्तः पुरं परिवारादिपरिकरं परिहृत्य श्रीकेवलिपार्श्वे प्रव्रज्य निर्मलचारित्रात्केवलज्ञानमवाप्य सिद्धिपदं प्रापुः ॥ ८ ॥ एवं च कामदेवकुमारः केवलिमुखाज्ज्ञानावरणीयकर्मणो बन्धहेतून् श्रुत्वा लोकलज्जया निजाज्ञानताहेतुमपृष्ट्वैव केवलिनं नत्वा स्वसैन्यं गतः । कालादयोऽपि वैरं मुक्त्वा स्वस्थानं गताः । ततो रात्रौ सुप्तं सर्व जनं मुक्त्वा कामदेवो देवतोपास्यमानं केवलिनं प्रणम्य निजपूर्वभवकथां पप्रच्छ । अथ भगवान् प्रोवाच- उज्जयिन्यां भीमः क्षत्रियो द्यूतेन खेलन्महाचौरोऽभूत् । स च मातापितृभ्यां निष्कासितोऽरण्ये स्थितश्चर्येण निर्वहति । अन्यदा काश्मीरदेशादागच्छन्तं जैनं ब्राह्मणं हत्वा पुस्तकभृतं वृषभं गृहीत्वा यावदुन्मुद्रयति तावन्मीषीपोतसमानमलिनखण्डस्यूतवस्त्रवेष्टितपुस्तकान्येव वीक्ष्य कोपात्पादाभ्यां हत्वा हत्वा जज्वाल । तच्च ज्ञात्वोज्जयिनीशेन घातितो भीमो रौद्रध्यानाच्चतुर्थं नरकं दशसागरोपमान्यायुर्भुक्त्वा तन्दुली मत्स्योऽभवत् । तत्रान्तर्मुहूर्तजीविताच्च महारौद्रध्यानात्सप्तमं नरकं गत्वा त्रयस्त्रिंशत्सागराण्यायुर्भुक्त्वा कामदेव नृपति कथा । ॥४७॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy