________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
200202010002020
नवतत्वादिविचारग्रन्थान् भणिता: विचारज्ञा जाता: परिणीताश्च । अन्यदा पिता पुत्रान् कुटुम्बभारे नियोज्य दीक्षां चाऽऽदाय तपसाऽवधिज्ञानी जज्ञे । तत्पुत्रास्तु यदा विद्वद्गोष्ठी कुर्वन्ति तदा प्रज्ञामदेन पूर्ण: सूत्रभेदं कुरुते-यथा धम्मो मंगलमुक्किट्ठमिति पुण्णं कल्लाणमुक्कोसम् । पद्मश्चार्थभेदं विधत्ते यथाधम्मो मंगलमुक्टिं धर्मो धातुरर्थात् सुवर्णमुत्कृष्टं मङ्गलं सर्वार्थसाधकत्वात् । पञ्चाननश्चोभयभेदं करोति यथा-धर्मो मङ्गलमुत्कृष्टं धर्मो धातुर्मङ्गलग्रहवन्मयाधिकारात् क्रौर्यलक्ष्म्या उत्कृष्टः । भीमः सिद्धान्तार्थं विपरीतं व्याख्याय धर्मस्यावर्णवादं करोति यथा- धर्म उत्कृष्टमङ्गलं शान्तरसत्वेनाकिञ्चित्करत्वात् । तत: पापं मङ्गलमुत्कृष्टं हिंसाऽसत्यचौर्यादितभेदानां सर्वकार्यकरत्वात् । एवं ते तीवं ज्ञानावरणीयं कर्म बध्नन्ति स्म । तथालाभादुन्मार्गदेशनेन सन्मार्गनाशनेन च तिर्यग्गतिमर्जयन्ति स्म।
अन्यदा ग्रीष्मे मध्याह्न प्रदीपने तीव्र लग्ने सारभाण्डाकर्षणाय गृहान्तःप्रविष्टा आर्तध्यानेन विनष्टास्तत्रैव पुरे मातङ्गपाटके श्वाना जाताः । ते च जनं प्रति धावन्तः कदाचिन्मां पूर्वजन्मपितरं पथ्यागच्छन्तं दृष्ट्वा तारस्वरं भाषन्तो धाविताः, सनामग्राहं च मया नामतो वादिताः, मामवलोकयन्तो जातिस्मरणं प्रापुः । अथ च स्मृतनिजपापाज्जातपश्चात्तापा: साधितानशना राजपाटिकां गच्छता राज्ञा
॥४४॥