SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः कामदेवनृपति कथा। 200202010002020 नवतत्वादिविचारग्रन्थान् भणिता: विचारज्ञा जाता: परिणीताश्च । अन्यदा पिता पुत्रान् कुटुम्बभारे नियोज्य दीक्षां चाऽऽदाय तपसाऽवधिज्ञानी जज्ञे । तत्पुत्रास्तु यदा विद्वद्गोष्ठी कुर्वन्ति तदा प्रज्ञामदेन पूर्ण: सूत्रभेदं कुरुते-यथा धम्मो मंगलमुक्किट्ठमिति पुण्णं कल्लाणमुक्कोसम् । पद्मश्चार्थभेदं विधत्ते यथाधम्मो मंगलमुक्टिं धर्मो धातुरर्थात् सुवर्णमुत्कृष्टं मङ्गलं सर्वार्थसाधकत्वात् । पञ्चाननश्चोभयभेदं करोति यथा-धर्मो मङ्गलमुत्कृष्टं धर्मो धातुर्मङ्गलग्रहवन्मयाधिकारात् क्रौर्यलक्ष्म्या उत्कृष्टः । भीमः सिद्धान्तार्थं विपरीतं व्याख्याय धर्मस्यावर्णवादं करोति यथा- धर्म उत्कृष्टमङ्गलं शान्तरसत्वेनाकिञ्चित्करत्वात् । तत: पापं मङ्गलमुत्कृष्टं हिंसाऽसत्यचौर्यादितभेदानां सर्वकार्यकरत्वात् । एवं ते तीवं ज्ञानावरणीयं कर्म बध्नन्ति स्म । तथालाभादुन्मार्गदेशनेन सन्मार्गनाशनेन च तिर्यग्गतिमर्जयन्ति स्म। अन्यदा ग्रीष्मे मध्याह्न प्रदीपने तीव्र लग्ने सारभाण्डाकर्षणाय गृहान्तःप्रविष्टा आर्तध्यानेन विनष्टास्तत्रैव पुरे मातङ्गपाटके श्वाना जाताः । ते च जनं प्रति धावन्तः कदाचिन्मां पूर्वजन्मपितरं पथ्यागच्छन्तं दृष्ट्वा तारस्वरं भाषन्तो धाविताः, सनामग्राहं च मया नामतो वादिताः, मामवलोकयन्तो जातिस्मरणं प्रापुः । अथ च स्मृतनिजपापाज्जातपश्चात्तापा: साधितानशना राजपाटिकां गच्छता राज्ञा ॥४४॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy