SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ag श्रीजैन कथासंग्रहः कामदेवनृपति कथा। agacagageggaggagagaeae उपधानं योगतपः । तद्विना सिद्धान्तवाचने आशातनायां सिंहकथा कौशाम्ब्यां सिंहोराजा बलीयान् । स कुगुरुसेवयाखेटकं कुर्वन्नरण्ये साधुना बोधितः पापभीरुः श्रीदमघोषाचार्यपावें प्रव्रज्य योगोद्वहनपूर्व चत्वार्यङ्गानि प्रवाचितवान् । ततो गुरुभिर्विहारे कृते सुकुमारत्वात्वाण्मासिकयोगोद्वहनाभावेऽपि भगवत्याद्यङ्गानि वाचयन् कुष्टी जातो महावेदनां भुङ्क्ते। अथो गुरुभिस्तत्राऽऽगत्याविधिवाचनातो मिथ्यादृग्देव्या छलितोऽसाविति ध्यानाज्ज्ञात्वा कायोत्सर्गाऽऽकृष्टशासनदेवीबलात् प्रत्यनीकादेवीं शमयित्वा राजर्षिनिरामयः कृतः। अथ सम्यगालोच्च प्रायश्चित्तेन स्वं विशोभ्य सर्व योगोद्वहनादिना ज्ञानमाराध्य मुक्तिसौख्यभाग् बभूव ॥ ४॥ निह्नवो गुरोरपलापः । तत्र विप्रकथाकोऽपि ब्राह्मणो दुर्भिक्षभावाद्विदेशं गतो विद्याबलादाकाशस्थया भण्डिका सह गच्छन्तं नापितं वीक्ष्य तत्सेवया तां विद्यां लब्ब्वा प्रतिष्ठां श्रियं च प्राप्तः । सुभिक्षे स्वं देशं गतो लौकैः पृष्टःकस्ते गुरुः ? सोऽपि नीचगुरुलज्जया महत्त्ववन्तं गुरुं वदंस्तत्कालं भ्रष्टविद्यो जातो, धौतपोतिश्चाकाशात्पतित इति॥५॥ ॥४२॥ Fak
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy