________________
श्रीजैन
कामदेवनृपति कथा।
कथासंग्रहः
201220120202012RNEALTANDANTONTA
पृथग्भूतोऽस्या मिलत्येव इति द्वयोरपि बुद्धिं श्रुत्वा गुरुणोचे-वत्सौ यः सबहुमानं गुरुं सेवते तस्य सम्यग्धी: स्फुरति, नान्यस्यैवेति बहुमानाद् गुरुः सेव्यः॥३॥
1 यदि वा श्रुतं प्रत्यबहुमाने बहुमाने वाऽशकपितोदाहरणम्
गडाकूलवासिनी द्वौ बन्धू एकत्र गच्छे प्रव्रजितौ। तत्रैको बहुश्रुतत्वादाचार्यों जातः । सर्व दिनं शिष्यैः शास्त्रार्थ सेव्यमानो विश्राम कदाऽपि नाप्नोति। रात्रावपि सूत्रार्थचिन्तनव्याख्यादिभिः सुखनिद्रां न लभते । अन्यदा स सूरिमध्येऽपवरके मूर्ख सुखोपविष्टं निजं बन्धुं दृष्ट्वाऽचिन्तयत्-अहो ! धन्यो मे भ्राता मूर्खत्वात् केनापि नो खेद्यते । अहं पुनरजाखड्गतुल्येन ज्ञानेन क्लेशं प्राप्तः सदा । तद्युक्तं केनापि यतः-मूर्खत्वं हि सखे ! ममापि रुचितं यस्मिन्निमेऽष्टौ गुणा । निश्चिन्तो बहुभोजनोऽत्रपमना नक्तंदिवा शायकः । कार्याकार्यविचारणान्धबधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुर्मुर्ख: सुखं जीवति ॥१॥ नैवं भावितवान् यतः- नानाशास्त्रसुभाषितामृतरसैः श्रोत्रोत्सवं कुर्वतां । येषां यान्ति दिनानि पण्डितजनव्यायामखिन्नात्मनाम् । तेषां जन्मच जीवितं च सफलं तैरेव भूर्भूषिता, शेषैः किं पशुवद्विवेकविकलै भारभूतैनरैः ॥२॥ एवं चासौ ज्ञानाबहुमानाज्ज्ञानावरणीयं कर्म
S
॥४०॥
S