________________
श्रीजैन कथासंग्रहः
अस्ति मे भगवन् ! दीक्षा न वा इति । केवल्यवोचत् अस्ति युवयोर्भोगफलकर्मोदयादनु दीक्षा । ततः केवलिदत्तप्रायश्चित्तेनात्मानं विशोध्य कुमारः कुमारीं परिणीय चिरं भोगान् भुक्त्वा सभार्यो दीक्षामादाय प्रान्तेऽनशनात्सर्वार्थसिद्धिमवाप ॥ १ ॥
विनयाऽऽशातनायां भाविनः श्रेणिकराजस्य कथा
किल भाविनोऽपश्चिम श्रीवीरजिनस्य वारके राजगृहे श्रेणिको राजा भावी । स च सिंहासने निवेश्य मातङ्गमग्रे व संस्थाप्य खड्गमाकृष्याऽऽकृष्टिविद्यां पृच्छति । मातङ्गश्च भीतो वक्ष्यति परं राज्ञो न स्फुरति । ततो देव ! विनयं विना विद्या न स्फुरति इत्य भयकुमारमन्त्रिवचसा महीशो मातङ्गमासने स्वकीये निवेश्य स्वयमग्रे योजिताञ्जलिर्विद्यामादास्यति, ततः स्फुरिष्यति । इत्येवं सर्वशास्त्राणि विनयेनैव सफलानि स्युः ॥ २ ॥
बहुमानं मानसी भक्तिः । तस्यां छात्रद्वयकथा
एकस्य पण्डितस्य द्वौ छात्रौ । धन्यो धर्मश्च । धर्मः शास्त्रोपरि बहुमानं विनयं विधत्ते । धन्यस्तु न तथा अन्यदा पण्डितेन निमित्तमध्याप्य परिक्षार्थं प्रेषितौ छात्रौ । राजमार्गे प्रौढपदानि वीक्ष्य
कामदेव नृपति
कथा ।
॥३८॥