________________
e
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
Raeeeeeeeeeeeee
___ बोलितास्तववचोविश्वासेनैव सर्वमिदमारब्धम् । हा! कथं विगोपिताः स्मः इति कोपाद् भूपेन पण्डितो
बन्धयित्वा वधार्थ बहिः प्रहितः । तावत्तत्र समवसृतः केवली। तत्प्रभावाच्च प्रहारेष्वलगत्सु लोकमुखात्तत् श्रुत्वा राजा सपरिवारः कुमारमग्रेकृत्य पण्डितेन सह तत्राऽऽगत्य केवलिनं नत्वा कुमारोदन्तं पप्रच्छ । केवली च पूर्वभवं श्रावयित्वा इत्यवोचत्-य: कालवेलायामस्वाध्याये ईर्यापथीप्रतिक्रमणाद्यविधिना वाऽऽगममधीते तस्य प्राज्ञस्याप्यवसरे कला नैव स्फुरति । इत्याकर्ण्य कुमारो जातपश्चात्तापः साधुं नत्वाऽऽत्मानमित्थं निनिन्द- हा हाऽज्ञानिना मया चिन्तामणिः कर्करतया, स्वर्भाणुतया नभोमणिः, करीरतया कल्पवृक्षः, कृष्णपक्षतया श्वेतपक्षः, कोलतया महागजः, सर्पतया महाध्वजः, काकतया हंसः, शिरोबन्धनतयाऽवतंसः, कालकूटतयाऽमृतम्, तैलतया गोघृतम्, 'काञ्चिकतया दुग्धम्, रुक्षतया स्निग्धम्, किरतया नरेशः, कुटवाक्यतया सर्वज्ञोपदेशश्चित्ते चिन्तितः । तेनैवं विगुप्तोऽस्मि । ततो भगवन् ! दीक्षां दत्त्वा मामस्मात्पापान्मोचयेति । तदा च कुमारी तानि तद्वचांस्याकाहो सम्यक्त्वलाभकौशल्यं विना कथमीदृशोक्तिः स्फुरति । तन्नूनमेष महाविद्वानपि कर्मोदयादेव तदा किञ्चिन्नोवाच । अतोऽत्र भवेऽसावेव मत्पतिरिति निश्चित्य केवलिनमप्राक्षीत्१कांजी-राब
NevgyeyNEERESEREYENE
॥३७॥