________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
मथुरायां हेमाङ्गदो राजा; लीलावती राज्ञी । तयोरनेकोपयाचितकलब्धोऽत्यन्तवल्लभो महारूपवान् मकरध्वजः पुत्रः । स पञ्चवर्षीयः पितृभ्यां प्रौढमहोत्सवैलेखशालायां मुक्तो यथा यथा पठति तथा तथा रोगैर॑स्यते। तेन नवीनं पठनं न सञ्चरति, पूर्वपठितं च विस्मरति । एवं बाल्यवयोऽतिक्रमे यौवने च समेते यदा गोष्ठीनिमित्तं विद्वत्सभायां निवसति तदा प्रतिजिह्वारोगेण भिन्नस्वरत्वात् सभ्यानामनिष्टो भवतीति । तच्छान्त्यै यान् यानुपचारान् करोति तैस्तैरधिकाधिकं वपुः क्षीयते । अतो महाकष्टपतितो मृत्यु वाञ्छति । तेन मातृपितृणामपि महादुःखम् ॥ एवं काले व्रजत्यन्यदा केवलिनं तत्राऽऽगतं श्रुत्वा राजा सपुत्रपरीवारः सन् जगत्त्रयस्वरूपवेत्तारं केवलिनं नत्वा देशनां श्रुत्वा पुत्रस्य क्लेशहेतुं प्रपच्छ । केवली प्राह-राजन् ! पूर्वभवे श्रीशीलरत्नसूरीणां विप्रसुती द्वौ शिष्यावभूताम् । लघुः प्रज्ञावानिति लोकैः क्रियमाणां प्रशंसामसहमानो ज्येष्ठः प्रद्वेषात्प्रत्यनीकतां बिभ्राणो लघो: पाठान्तरायोपघातनिन्दाः प्रकुरुते । अन्यदा पडिणीयमतराइय उवधाए तप्पओसनिलवणे इत्यादिकर्मबन्धहेतुप्ररूपणगाथा: पठन्निवृत्तस्तस्मात्पापात् । निरतिचारं चारित्रं प्रतिपाल्य प्रान्तेऽपि तमनालोच्य साधितानशनो मृत्वा ब्रह्मलोके स्वर्गसुखानि भुक्त्वा तवासी पुत्रोऽवतीर्णः । पूर्वोपार्जितज्ञानावरणीयोदयादेवं क्लेशं च प्राप्तः । इत्याकये जातिस्मरणं प्राप्य जातसंवेगः कुमारः '
BASEve
॥३४॥