SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कामदेवनृपति कथा। कथासंग्रहः मलालालालतका पादयोलगित्वा पूर्वपापान्यालोच्य केवलिप्रोक्तप्रायश्चित्तेन स्वं विशोभ्य क्रमेणोत्तमार्थमाराधयामास । पञ्चमो हेतुर्महाशातना । सा च काल-विनय-बहुमानोपधाननिह्नव-व्यञ्जनभेदार्थभेदोभयभेदप्रकारैरष्टधा। तत्र कालाऽऽशातनायां सोमकुमारदृष्टान्त: पूर्व श्रीजिनदाससूरीणां शिष्यो धर्मदासगणिः, कदाचित्कालवेलायामपि सिद्धान्तं वाचयन् केनापि निषिद्धः कालवेलायां पठितं किमपठितं स्यात् ? मुधाऽसौ पाठान्तरायः इति बुद्ध्या तथैव वाचयन् ज्ञानावरणीयं कर्म बद्ध्वाऽनालोचितोऽप्रतिक्रान्तः कालं कृत्वा सौधर्मदेवलोकं गत्वा च्युत्वा च चन्द्रनरेन्द्रपुत्रः सोमकुमारोऽजनि । स च ताडयित्वा पाठ्योऽसौ प्रत्यहम् इति राजादेशादेव पण्डितेन सर्वाः कला: शिक्षितः । सोमकुमारसदृशः कोऽपि न कलावान् इति वसुधापीठे ख्याति प्राप्तः । इतच कान्तीपतिश्रीवेणराजसुता सकलकलाकुशला सर्वोत्तमरूपा सुरूपाभिधाना स्वेच्छया बरं वृणीष्व इति कलातिशयसन्तुष्टतातदत्तादेशान्महत्या सेनादिसामग्र्या प्रतिदेशं राजकुमारान् परीक्ष्यमाणा सोमकुमारं सर्वगुणाऽऽधारं श्रुत्वा चम्पां समेता सा। तच्च ज्ञात्वा चन्द्रेण राजकान्ते पण्डितः पृष्टः-अस्ति सर्वकलासु परीक्षाक्षमः कुमारः ? पण्डितः प्राह-नवेत्ति तन्न हि त्रैलोक्ये; राज्ञोक्तम्-सत्यमिदम् ? । पण्डितेनोक्तम् ॥३५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy