________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
कयाचिन्माययैवानेन सौभाग्यमञ्जरी जिता न तु विद्वत्तया। अत्रार्थे सभासमक्षं वादं याचम्वम्, यद्यसौ भाषितो वक्तुमपि वेत्ति तदाऽहं यथारुचि विडम्बनीया। परमीदृशं कन्यारत्नमस्थाने गच्छन्नवोपेक्ष्यते। एतच्च श्रुत्वा कोऽयं वराकः सङ्ग्रामे वादे वाऽस्माकं पुरतः कामदेवः ? इति गर्जन्तो दधाविरे कालादयः । तापसी च स्वकृतकूटज्ञापनेन दुःखयामि सौभाग्यमञ्जरीम् इत्यम्बरग्रामे समेता । तत्र च नदीतटे खेलन्ती चन्द्रलेखां वीक्ष्य दृष्टं मदवज्ञाफलं भवत्स्वामिन्या ? महामूठभर्तृसङ्कटे पातिताऽस्ति सा पुनरद्य सङ्कटान्तरे तां पातयिष्यामि इति बभाषे। चन्द्रलेखा शीघ्रमागत्य सौभाग्यमञ्जरी प्रति तदूचे। सौभाग्यमञ्जरी प्राह-सखि ! अग्रेऽप्येषाऽऽशङ्काऽभूत्, परं ज्ञातं यदि पुनर्लज्जया पतिः समयेऽपि किञ्चिन्न वक्ति । ततस्तापसीमेवाकार्य पृच्छयते । यथा सर्व ज्ञायते । इति तापसीमाकार्य तन्मुखेनैव सर्व मूलतः श्रुत्वा राजपुत्री विषण्णेत्यचिन्तयत् -समर्थेनापि सन्ताप्योऽसमर्थोऽपि हि न क्वचित् । भूपतिर्व्याकुलीचक्रे दुर्बलैरपि मूषकैः ॥१॥ केनचिद्राज्ञा वस्त्रपेटापावें प्राम्यन् मूषकः कम्बया ताब्यमानो नष्टोऽन्यमूषकैः सह कोपात्कोशस्थाः सर्वचर्मरज्जूभक्षयित्वा प्रथमवृष्टी गजबन्धरज्जूरप्यभक्षयत् । ततो मुत्कलाङ्गानां वृष्टिसिक्तपृथ्वीगन्धमदोन्मत्तानां प्रतोल्यादि पातयतां हस्तिनां बन्धरज्जूषकभक्षिताः श्रुत्वा कथं करिष्यते इत्याकुलीभूतो भूपो मूषकैः प्रोचे-समर्थेनापीत्यादि ।
DEEREENSAVER Eeregleegge
॥३०॥