________________
+
+
कामदेवनृपति
+
कथासंग्रहः
lit
कया।
1022020
दयाधर्म, इति तत्त्वायी स्फुटम् ॥१॥ इति पाबालीप्रतिष्ठिततत्वावीश्रवणेनारम्जिताऽपि रञ्जिता राजकन्या कामदेवकण्ठे यावरमालां क्षिपति तावत् सर्वानपि भूपान् कामदेवसरूपरूपानिरीक्ष्य क्षोभमवाप। ततः अहो आशय, हा किंभावि इत्यादिजल्पति लोके कुमार्या परमेष्ठिमन्त्राभिमन्त्रिततोयेन यदि सत्यः श्रीमान् जैनधर्मस्तदा विलीयतां माथा इति तारं श्रावयित्वा वारत्रयं छटा चिक्षेपे । ततो विलीना माया जाता: स्वभावरूपा भूपाः । हृष्टाः सर्वे लोकाः । बाला कुमारकण्ठे वरमालामक्षिपत् । अथो जयजयम्यानपूर्व धवलमालैः । गीयमानैर्नृपः पुत्रीवुक कुमारं गृहेऽनयत् ॥ १॥ तैरेव स्वजनीभूतैर्भूपैर्भूपः शुभेऽहनि । अचीकरत् विवाहं महेन महता तयोः ॥ २॥ ततो व्यसर्जयद्राज्ञा राज्ञः सत्कारपूर्वकम् । वरवम्वोः प्रववृते दशाहं मालादिकम् ॥ ३॥ मा ज्ञासीत्कोऽपि मूर्खत्वमिति शीघ्रं शुभक्षणे । सपत्नीकः कुमारोऽथ चचाल स्वपुरं प्रति॥४॥ निवृत्ते च सुरे राशि, प्रयाणत्रितयादनु । नधास्तीरेअम्बरे ग्रामे, कुमारोऽस्थात्ससैन्यकः॥५॥
इतच सा तापसी सौभाग्यमबरी मूर्खपतिसक्कटे पातिता, अथ परपुरुषापहारसकटे तां पातपामि, इति ध्यात्वा कान्तीपुरीपतेस्तिलाादिदशदेशाधिपतिमहाकालादिदशनरेशसेव्यपादस्य स्वयंवरात्कान्ती गच्छतः कालभूपालस्येति ज्ञापयामास-कामदेवो बाल्यादपि महामूर्खः,
॥२९॥
H