________________
श्रीजैन कथासंग्रहः
कामदेवनृपति - कथा।
aa
- तच्चेदम्-इह किल सकलकलाक्लापकुशला अपि तत्त्वत्रयीस्वरूपं सम्यगविन्दमाना मानाऽऽवेशतो मोक्षहेतवे हरिहरादीन् देवान् ब्राह्मणादीन् गुरून् यागादिक्रियाश्च धर्म प्रमाणयन्ति । ते पुनरेवं वाच्या:-ननु हरिर्मुक्तिदातेति यदुच्यते तत्र स हरिः सरागो वा नीरागोवा ?.सराग इति चेत्, न सरागस्यामुक्तस्य मुक्तिदाने सामर्थ्यात् अस्मदादिवत्, नीरागश्चेत् तर्हि वीतराग एव नामान्तरेण प्रपन्नः, एवमन्यदेवेष्वपि तथा ब्राह्मणस्तरति तारयति चेत्यत्रापि स ब्राह्मणो वेषेण वा क्रियया वा ? वेषेण चेत्, न, नटादेरपि ब्राह्मण्यप्रसङ्गात् । क्रियया चेत् ? तर्हि सा क्रियाहिंसासत्यास्तेयशीलाकिञ्चन्यरूपाऽन्यरूपा वा ? अन्यरूपा चेत्, न सत्यं ब्रह्म, तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः। सर्वभूतदया ब्रह्म एतद् ब्राह्मणलक्षणम् ॥१॥ इत्युक्तिप्रामाण्यात् । अहिंसादिरूपक्रियायाश्च ब्राह्मण्यमस्माकमपि सम्मतमेवेति । तथा नोदनालक्षणो धर्म इत्यप्ययुक्तम् । यतो नोदना यागादिक्रियाप्रवर्तकवचोरूपा। यागादिक्रियाच हिंसात्मिका: ता: धर्माय चेति प्रोच्यमानं नीली गेहधवलनाय इतिवत् कस्य नाम न हास्याय ? अत एवोक्तम्-यूपं छित्त्वा पशून् हत्वा, कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्ग, नरके केन गम्यते ॥१॥ ततोऽहिंसैव धर्मः । एवं सति-मोक्षदाता वीतरागः, क्रियावान् भवतारकः । शर्मदायी
ORTANDRANI
शश
॥२८॥