SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः कामदेवनृपति कथा। स्नाता ततो विलेपनपुष्पाद्यलकृता कृतार्हत्पूजना जनानुरागसागरविहितमज्जना स्त्रीसहस्रपरिजनाध्यारूढयाप्ययाना सखीभिर्गीयमाना पाणिस्थितवरमालाशोभमाना स्वयंवरमण्डपं विवेश । तदा च तत्रोपविष्टा भूपा भूपपुत्राश्च दर्पणदर्शन-भालस्पर्शन-क्षुरिकानर्तनकेतकीपत्रकर्तनादिनाना चेष्टाः कुर्वन्ति स्म । अथ प्राह प्रतीहारी-पश्य प्रीतिस्पृशा दृशा । त्वत्सौभाग्यगुणाकृष्टाः समेताः सखि! भूभुजः॥१॥असौ पूर्वदिशः स्वामी चामीकरबरद्युतिः। राजा गुणाकरः सर्वकलानामेकमास्पदम् ॥ २॥ दक्षिणाऽऽशापतिः पृथ्वीचन्द्रः सैव नरेश्वरः । पश्चिमायां महीसेनः सिन्धुदेशप्रभुस्त्वसौ॥३॥ असावयोध्याधीश: श्री सूरदेवनृपाङ्गजः कामदेवः कामदेवतुल्यरूपो विराजते॥४॥ अङ्गवङ्गकलिङ्गश्रीतिलङ्गमगधाधिपाः । वत्से कियन्तः शक्यन्तेऽधुना कीर्तयितुं नृपाः ॥५॥ सर्वेऽप्यमी गुणशतैः कलिताः कुलीनाः, प्रौढप्रतापदहनज्वलितारिमीनाः । एषां सुधीर्जयति यो भवर्ती स भूयाद्, भर्ता तवेति कुरु सम्प्रति पूर्वपक्षम् ॥ ६॥ गद्यपद्यैरथो कन्या पूर्वपक्षं तथाऽकरोत् । आस्तां यथोत्तरं भूपास्तदर्थमपि नाविदन् ॥७॥ ततो निरुत्तरीभूते राजवर्गेऽखिला जनाः। हाहाकारपरा: प्रोचुः पुंस्पक्षो विजितः स्त्रिया॥८॥ वीक्ष्योदन्तममुं दध्यौ वैरिसिंहनृपस्तदा। कुमार्यवासको यावज्जीवं स्थाप्या कथं हहा? ॥ ९॥ यक्षाऽऽवेशादथामात्यविज्ञप्त: सूरदेवसूः । गर्जन्पर्जन्यवत्प्रोचे कन्यां । ॥२६॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy