SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीजन कवासंग्रहः कामदेवनृपति कथा। an2020 Meenev जाजताततालका सिंहद्वार एव यावत्पश्यामस्तावत्सपान्तर्निविष्टोऽनुच्छिष्टरूपलावण्याङ्गभङ्गसौभाग्यादिगुणाऽऽश्लिष्टः कुमारो दृष्टः । चिन्तिनं च-राजहंसाभ्यां योऽस्मत्स्वामिनीपतिः प्रोक्तः सोऽयं कामदेवः । परं प्रेक्ष्यते क्षणपस्य मुखम् । तावता विद्वद्गोष्टीक्षणे प्रवर्तमाने सस्मितं शिरोधूननमेव कुर्वाणं कुमारं दृष्ट्वा निर्णीतमस्माभिः-नूनं युक्तायुक्तस्थाने शिरोधूननं ज्ञापयति यदेष किचिन्न वेत्ति इति । ततः स्वामिनि! सोऽन्यः कामदेवः, यो राजहंसाभ्यां प्रोक्तः । एतच्च श्रुत्वा कन्या यद्धाव्यं तद्धविष्यति इति जल्पन्ती दीर्घ निःश्वस्य सहसा शय्यायां लुलोठ । चन्द्रलेखाऽपि श्रान्ता तत्राशेत । अथ कन्या-हा ! प्रातः स्वयंवरे किं भावि ? मृत्युरेवाथ श्रेयान् इति ध्यात्वा कण्ठे पाशक्षेपाय यावदुत्तिष्ठति, तावन्-मा 'विषीद, त्वत्पतिरेवासी, यो ब्रह्मवाग्देवीभ्यामुक्तः इति वारत्रयं यक्षप्रोक्तामाकाशवाणीमाकर्ण्य कल्पान्ते -ऽप्याकाशवाणी नान्यथा स्यात् इति सहर्ष सुखं सुष्वाप । इतश्च प्रातः स्वयंवरमुहूर्तोऽस्ति, सत्वरं । यथोपदिष्टकर्माणि कुरुध्वम् इति पाटहिकेन पटहं वादयित्वोपुष्टे स्वयंवरमण्डपे च सज्जीकृते सर्वेऽप्याहूता राजानः प्रातःस्नातानुलिप्तभूषितानना यानाधिरूढा महत्या छत्रचामरादिऋद्ध्या राजमाना: को भव्यः ? कोऽभव्यः ? इत्याकुलैलोकैरालोक्यमाना अनेकवादिननादैदिग्मण्डलान्यापूरयमाणाः . स्वयंवरमण्डपं प्रविश्य मञ्चस्थापितसिंहासनानि यथाक्रममलञ्चक्रुः । राजकन्याऽपि राजादेशात्पूर्व 300gmeaeeeeeeeeeees 8 ॥२५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy