________________
श्रीजैन कथासंग्रहः
द्रष्टुमागतोऽस्मि । परं त्वं कः कस्येति ? सोऽप्यूचे अहमपि तत्रैव वाग्देवीवाहनम् वाग्देवीवदनान्मत्प्रतिबिम्बं कामदेवो मत्प्रतिबिम्बसौभाग्यमञ्जरीपतिर्भविष्यतीति श्रुत्वा तं वीक्ष्य तत्पत्नीदर्शनार्थमत्रागतोऽस्मि इति राजहंसंयोर्वचः श्रुत्वा कः कामदेवः ? यद्वा एतावेव पृच्छामि इति कुमारी यावदचिन्तयत् । श्रीकामदेव इति वदन्तावुत्पतितौ । अथ विषण्णा कन्या चन्द्रलेखां सखीमूचेसखि ! कथं स युवा ज्ञेयः ? सख्यूचे मा विषादी:, वादक्षणे स स्वयमेव प्रादुर्भविष्यति इति कन्या स्वास्थ्यं भेजे । इतश्च कामदेवः प्रतिप्रयाणं सभानिविष्टो विद्वद्गोष्ठीक्षणे पार्श्वद्वयस्थपण्डितयोर्मिथः कथां कुर्वतोरन्तरा स्मितास्यः शिरोधूननेनैव स्वं गोपायन् क्रमाद्वाणारसीं प्राप्तः ।
श्रीवैरिसिंहेन राज्ञा सर्वेऽपि स्वयंवराऽऽहूता राजानो महोत्सवपुरःसरं यथोचितस्थाने स्थापिताः विशेषतः कामदेवश्च । अथ प्रवेशोत्सवक्षणे वीक्षणार्थागतदासीमुखाद् भूपालाऽऽगमनं श्रुत्वा तत्परीक्षार्थं कुमार्या प्रेषिता चन्द्रलेखा सखी। सा च पत्रपुष्पचन्दनादिपूर्णपटलीपाणिदासीशतपरिवृता निशामुखे भोगार्पणव्याजेन सर्वभूपानां चरित्राणि निरीक्ष्यार्धरात्रे समेत्य कन्याऽग्रे प्रोवाच स्वामिनि ! किमुच्यते, रत्नदोषी चतुर्मुखः । यतः कोऽपि कोपेन, कोऽपि कार्पण्येन, कोऽप्यसत्येन, कोऽप्यनौचित्येन, कोऽप्यहङ्कारेण, कोऽपि विकारेण, एवं प्रभूतभूपान् दोषविरूपान् वयं पश्यन्त्यः कामदेवस्यावासे
कामदेव नृपति
कथा ।
॥२४॥