SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः । साऽथ - दक्षत्वगर्वितामेतां यावज्जीवं महामूर्खस्य पत्युः सङ्कटे पातयामि इति कोपात् क्वाऽपि सातिशयं यक्षमाराध्य सौभाग्यमञ्जरी मूर्खेण वादे जित्वा परिणेतव्या इति वरं ययाचे । यक्षोऽपि कामदेवकुमारान्नान्यो मूर्खस्ततस्तं तस्याः पतिं विधास्यामि इत्युक्त्वा कामदेवः स्वयंवरे सौभाग्यमञ्जरीं परिणेष्यति इति स्वप्नं विमलबोधाय दत्त्वा मया कामदेवामात्यायैष स्वप्नो दत्तोऽस्ति इति तापस्या ज्ञापयामास । मन्त्री चासम्भाव्यमेतदिति चेतस्येव स्वप्नमस्थापयत् । अथ प्रातः प्रयाणान्ते सभानिविष्टे कुमारे सा तापसी वाञ्छितसिद्धिर्भवतात् इत्याशिषं दत्त्वा सोत्साहा पुरोऽस्थात् । मन्त्री प्राह कथमेतत् ? सा स्माह- कुमारः कन्यां वादे जित्वा परिणेष्यति । अत्रार्थेऽद्य रात्रौ त्वया स्वप्नोऽदर्शीति प्रत्ययः । ततो अहो सत्यमेतद् इति मन्त्री कुमाराय स्वप्नमुक्त्वा तापसीं सत्कृत्य विससर्ज । अवश्यमिदमपि कथञ्चित् सेत्स्यति इति स्वस्थचित्तौ कुमारामात्यौ मुदं भेजतुः । इतश्च सौभाग्यमञ्जरी सौधोपरि चन्द्रशालायां निविष्टाऽऽकाशे मधुरं घर्घरीस्वरं श्रुत्वा यावत्पश्यति तावच्चन्द्रबिम्बादिवोत्तीर्णं स्वर्णघर्घरीभूषितकण्ठं रक्तचञ्चूचरणलोचनं राजहंसद्वयं गवाक्षे समेत्य सलीलं खेलन्मिथो बभाषे एकेनोक्तं द्वितीयस्य, कंस्त्वं कुतः किमर्थं समेतः ? सोऽवोचत् अहं ब्रह्मलोके ब्रह्मणो वाहनम् ब्रह्मणो वदनात्कामदेवः सौभाग्यमञ्जरीपतिर्भावीति श्रुत्वा तं वीक्ष्य तत्पत्नीं कामदेव नृपति कथा । ॥२३॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy