SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः तत्तत्कालवर्तिज्ञानिभिर्दृष्टत्वाज्जीवोऽप्यस्ति । अथ को वेत्ति ज्ञानिनस्तेऽभूवन्न वा इति चेत्, तर्हि तत्कालवर्तिमानवा अप्यभवन्न वा इति तुल्यमेव । अथ पूर्वजानामभावे वयं कथं भवामः ? इति अनुमानात्पूर्वजा आसन्निति मन्यते तर्हि ज्ञानिनामभावेऽविसंवाद्यागमवचांसि कथं भवेयुरिति ज्ञानिनः तद्दृष्टश्च जीवः किं न मन्यते ? एवं च यदि जीवोऽस्ति तदा तत्कृतं पुण्यं पापं चाप्यस्ति, अन्यथा सुखिदुःखित्वादिजगद्वैचित्र्यानुपपत्तेः । अथ जन्मक्षणादौ शुभाशुभग्रहयोगात्तद् भवति इति चेत्, तर्हि शुभाशुभग्रहयोगोऽपि पुण्यपापनिमित्त एव वाच्योऽन्यनिमित्तार्दशनात् । अथैकस्मादेव पाषाणाज्जातयोर्बिम्बसोपानयोः पूज्यापूज्यत्ववन्निर्निमित्तं सुखिदुःखित्वमिति चेत् न, प्रतिष्ठितबिम्बाभिधानधनिकसोपानयोः पुण्यपुण्याभावावेव तत्र हेतु:, अन्यथा कस्यापि पुण्यवतो नाम प्रतिष्ठां विना किं नाम बिम्बं न पूज्यते ? एवं पापिनो मूर्त्तिः पादप्रहारथुत्कृत्यादिविडम्बनान्यायमपि स्थाप्यम् । ततो यदीत्थं पुण्यपापे विद्येते तदा तन्निमित्तौ स्वर्गनरकौ जायमानौ केन वायेंते ? किञ्चपुण्यपापक्षये मोक्षः इति वचनाज्जीव इव मोक्षोऽप्यस्तीति सर्वं सुस्थम् । परं प्रबुद्धैः सदा पूरणीया स्ववाञ्छा इति चेत्तव मतम् तदाऽदृश्यमुखी त्वं निष्काश्येवेत्यधुनाऽस्माकं वाञ्छास्ति तां पूरयिष्यामः इत्युक्त्वा दृक्संख्या कन्यया दास्यः प्रेरिता, ताभिश्च मुखमर्कटिकापूर्वं तापसी गले गृहीत्वा निष्काशिता कामदेव नृपति कथा । ॥२२॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy