________________
O0
श्रीजैन
कामदेवनृपति
कथा।
कथासंग्रहः
पुनर्महाराज! तव सपुत्रस्याऽऽहानार्थ प्रेषितः । अद्यतनदिनात् त्रिंशत्तमदिने स्वयंवरमुहूर्तम् । ततः पादमवधारपतु देव ! । इति दूतेन प्रोक्ते श्रीसूरदेवः कामदेवमुखमालोक्य वत्स ! स्वयंवरं गच्छ, स्वच्छमत्या षोडशवर्षाधीतकलाप्रमाणतः कन्यां परिणीय जयलक्ष्मी वृणु इत्यादिश्य दूतं सत्कृत्य विसृष्टवान् । अथ ताताऽऽदेशात्कुमारः शुभेऽह्नि कृतप्रस्थानमङ्गलः स्वीयं जायस्वरूपं रहो ज्ञापयित्वा विमलबोधमन्त्रिणं तस्य बुद्ध्या बाणचन्द्र-बालसरस्वत्याख्यं पण्डितद्वयं च सहादाय प्राचालीत् । इतश्च परिवाजिकैका पर्यटन्ती सौभाग्यमञ्जर्या आशिषं दत्त्वा पुरो निविश्य वत्से ! यौवनायुर्लक्ष्मीणां लाभं गुहासिनवा? इत्यपृच्छत् । को लाभः ? इति कन्ययोक्ते तापसी स्माह-स्वेच्छया खादनपानादि । तथाहि-पिब खाद च चारुलोचने! यदतीतं वरगात्रि! तन्नते। नहि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरम् । कन्यया-आयुर्यावनलक्ष्मीणां नम्वरीणां प्रतिक्षणम्। पुण्यमेव फलं ग्राह्यं परिणामसुधारसम् ॥२॥ तापसी-न पुण्यं न पापं न जीवोऽस्ति भोक्ता, न च स्वर्गमोक्षादिभावोऽपि कश्चित् । तदेषां महाभ्रान्तिभावं विमुच्य, प्रबुद्धैः सदा पूरणीया स्ववाञ्छा॥३॥ कन्या स्माह-कथं नाम ज्ञायते जीवो नास्ति इति ? प्रत्यक्षेणादृश्यमानत्वात्, इति चेत्, तर्हि त्वदीया पूर्वजा अपि तेनैव हेतुना नाभवन्निति वक्ष्यामः, तत्कालवर्तमानमानवैर्दृष्टत्वात् पूर्वजा अभूवन् इति चेत्, तर्हि
Bagaeaveengag
Re0020402020LL
emaase
॥२१॥