________________
श्रीजैन कथासंग्रहः
तदपि कृत्रिमम् । परं - ज्ञानाद्भवेत्कुलीनत्वं ज्ञानान्मुच्यते पातकात् । ज्ञानात्परं न हि श्रेष्ठं ज्ञानमर्जय तत्सखे ! ॥ ३ ॥ इदं सत्यम् । बुभुक्षितैर्व्याकरणमित्याद्यपि न सात्त्विकम् । यद्गुरुप्रसादाप्तज्ञानलेशो लीलयाऽपि सुवर्णकोटीरुपार्जयति । ज्ञानं च विना पशुपक्षिवृक्षा हेमकोटीभिरपि किं साध्यं साधयन्ति । तथा-लक्ष्मीः सुवर्णरूपाऽपि हस्तपादावलम्बिनी । भूषयन्त्यन्तरात्मानं वर्णरूपाऽपि भारती ॥ ४ ॥ इति कन्योक्तं शृत्वा पण्डितोऽवोचत्- राजकुमारि ! विचारय मद्वचः - वयोवृद्धांस्तपोवृद्धा ये च वृद्धा बहुश्रुताः । सर्वे ते धनवृद्धस्य द्वारे तिष्ठन्ति किङ्कराः ॥ १ ॥
अथ कन्या, अवधारयन्तु भाग्यलभ्या सभ्याः ! लक्ष्मीवांस्तातः, सरस्वतीवान् पण्डित, यदि लक्ष्मीरेव सारतया मान्या तर्हि पण्डितः समुत्थाय राजानं प्रणमतु, नो चेत् सरस्वती मान्या । इति कन्यावाचमाकर्ण्य राजानं कथं नमति ? इति विद्वानपि पण्डितो विलक्षमुखोऽधो वीक्षामास । अहो ! कुमार्या बुद्धिः, पण्डितोऽपि कथं जितः इति सभ्यैर्घोषितेऽतीवसन्तुष्टो नरेशो वत्से ! वरं वृणु वृणु इति प्रोचे । कन्याऽप्याह-तात ! यदि सन्तुष्टोऽसि, तदा यः कोऽपि कलासु मां जेष्यति स एव मां परिणेष्यति इति वरं देहि, राजाऽप्येतत्प्रतिश्रुत्यामात्येन सहालोच्य पुरोपवने भूमिशुद्धिपूर्व स्वयंवरमण्डपं समाहूतभूपस्थानार्थं सौधांश्च कारयन् सर्वत्र राज्ञां राजकुमाराणां चाकारणाय दूतान् प्रैषीत् । अहं
कामदेव नृपति
कथा ।
॥२०॥