________________
श्रीजैन कथासंग्रहः
वत्से ! अस्मिन्नसारे संसारे लक्ष्मीरेव सारं सर्वप्रकार्यसाधकत्वात् । तथाहि सर्वधर्मार्थकामानां लक्ष्मीः सिद्धिनिबन्धनम् । न तां विना यदेकोऽपि निर्मातुं शक्यते क्वचित् ।। १ ।। आस्तां सर्वकार्यप्रसाधकत्वम्, अस्याः प्रसादेन सर्वे दोषा अपि गुणा एव स्युः । यदुक्तम् - कोपस्तेज इति ग्रहः स्थितिरिति क्रीडेति दुश्चेष्टितं, मायित्वं व्यबहारकौशलमिति स्वच्छत्वमित्यज्ञता । दौर्जन्यं स्फुटवादितेति धनिनामग्रे बुधैर्यद्वशाद्, दोषेऽपि व्यपदिश्यते गुणतया तस्यै नमोऽस्तु श्रिये ॥ १ ॥ धनैर्निष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात् पुनर्निस्तरन्ति धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चिद् धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥ २ ॥ बुभुक्षितैर्व्याकरणं न भुज्यते, पिपासितैः काव्यरसो न पीयते । न छन्दसा केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः ॥ ३ ॥ इति पण्डितेनोक्ते कोकिलावत्कलरवं कुर्वती कन्या स्माह-पण्डितराज ! मैवं वोचः । मदुक्तमवधारय । अस्मिन्नसारे संसारे सारं भगवती सरस्वती, सर्वकार्यसाधकत्वात् । तथाहि धर्मार्थकामसिद्धीनां मुख्यबीजं सरस्वती । ज्ञानं विना • यदेकोऽपि न कर्तुं शक्यते क्वचित् ॥ १ ॥ तथा लक्ष्मीप्रसादाद्दोषाणां यो गुणव्यपदेश: स कृत्रिमः । परं सरस्वत्याः प्रसादाद्दोषा गुणीभवन्तीति सत्यमेव । तथाहि - कोप- कदाग्रह-दुश्चेष्टितानि दौर्जन्य-मानलोभाद्याः ये । ज्ञानप्रसादतोऽमी दोषाः क्षणतो भवन्ति गुणाः ॥ २ ॥ धनैर्निष्कुलीना इत्यादि यदुक्तं
कामदेव नृपति
कथा ।
॥१९॥