SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ... श्रीजैन .. कथासंग्रहः कामदेवनृपति कथा। 20020230ages क्रमात्क्रान्तिमबिम्बो भावी सोऽको मुदे तु वः॥१॥अथ तत्स्वप्नफलं तां चोपश्रुति श्रुत्वा प्रमोदमेदुरा राजपत्नी शकुनग्रन्थिं बद्ध्वा पूर्ववत् पुण्यानि कुर्वती काले भव्यवेलायां सकललक्षणं पुत्रं प्रसूता। अपुत्रस्य पुत्रोत्पत्तिः प्रमोदहेतुर्विशेषतो महाराजस्य इत्यनेके महोत्सवा जाताः । सूतकशुद्धेरनु स्वप्नानुसारेण कामदेव इति नाम मातापितृभ्यां दत्तम् । . स च शुक्लपक्षे शशीव नन्दनवने कल्पद्रुम इव प्रतिदिनं प्रवर्द्धमानः कमलेषु राजहंस इवानेकक्षितिपालोत्सङ्गेषु क्रीडमानः कस्य नाम मुदं नाकार्षीत् ? यावता पञ्चवर्षातिक्रमे कामदेवं नरदेवः सोत्सवं लेखशालायां मुमोच तावता विपक्षपक्षपीडामानान् निजदेशान् ज्ञात्वा भम्भावादनपूर्व सन्नह्य सारसैन्यः स्वयं देशरक्षार्थमचालीत् । कुमारश्च पण्डितेन यथोचितताडनया भाण्यमानोऽपि पूर्वकृतकर्मवशादक्षरमात्रमपि न बुबोध। एवं षोडशवर्षाणि व्यतिक्रान्तानि । अथ राजा वैरिणो विद्राव्य देशस्वास्थ्यमुत्पाद्य परराष्ट्रेष्वपि निजामाज्ञां संस्थाप्य जितकाशी निजपुरमागात्।। कुमारोऽपि पञ्चपताकातोरणादिना नगरमलङ्कृत्य सम्मुखं गत्वा भूतलमिलद्भालो भूपालं ननाम। राजा प्रतिपदं जायमानापूर्वापूर्वोत्सवैः पुरान्तः प्रविश्य सिंहद्वारे सिन्धुरादुत्तीर्य सर्वोत्तमवेलायां स ॥१७॥ CHS
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy