________________
श्रीजैन कथासंग्रहः
NEEYEgyee
कामदेवनृपति
कथा।
प्रारेभे। सचैवम् -
प्रातः स्तोकजलस्नानः शुचिश्वेताव्यङ्गवासाः कृताचाम्लतपा: श्रीसर्वज्ञं पूजयित्वाऽखण्डशीलोऽखण्डाक्षतैश्चतुर्विशत्यधिकं शतत्रयं जपति, इत्थं मध्याह्ने सन्ध्यायां च । एवं चाष्टोत्तरशताचाम्लैः साधिके लक्षजापे पूर्णे क्षीणमशेषमन्तरायकर्म। ततः पारणकदिने सर्वजिनचैत्येषु महापूजां कारयित्वा, दीनादीनामुचितदानं दत्त्वा सारस्निग्धाशनर्धार्मिकान् भोजयित्वा साधून शुद्धाहारैः प्रतिलाभ्य सिताघृतपायसादिना पारणं कृत्वा सर्वसंसारव्यवहारान् सत्याप्य सुखं सुष्वाप।
. इतश्च कस्मिंश्चित्पुण्यवति जीवे गर्भ प्राप्ते कामदेवः समेत्य प्रभाभरेण सर्वा दिशो द्योतयन्तमपि 'किञ्चिदन्तधूसरबिम्बं शनैः शनैः सर्वतो दीप्तमण्डलं भास्करं ममोदरे प्रतिष्ठाप्य ईदृशं पुत्रं लभस्व इति वरं दत्त्वाऽदृश्योऽभूत् । इति सुखसुप्ता राज्ञी स्वप्नं दृष्ट्वा मधुरगिरा बोधिताय राज्ञे प्रोवाच । राजाऽपि भास्करभासुरः सुतस्ते भावी परं बिम्बान्तधूंसरताहेतुं न वेधि इति जगाद । तावतां शङ्खध्वनिना सर्वपुरमापूर्य मङ्गलपाठकः पपाठ-किञ्चिधूसरबिम्बोऽपि द्युतिभिर्यो तयन् दिशः । यः
EMAMANMANAVARANASve
BB ॥१६॥
१ किञ्चित् श्वेत