SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः कामदेवनृपति कथा। । घोरपापकर्माऽपि यः पापनिवृत्तः कोटिजापादनु कोंटितन्दुलान् दोकयति सोऽपि सर्वपापनिर्मुक्तः सप्ताष्टभवान्तः सिध्यति, परं मनःस्थैर्यानुसारेण सर्वत्र फलमिति । तदुपायो भण्यते-इह जापत्रिधा पूर्वानुपूर्व्या पश्चानुपुर्व्या अनानुपूर्व्या च । तत्र यथोक्तपदानां क्रमात्पाठः पूर्वानुपूर्वी । अनया च जापो मनःस्थैर्यार्थ कमलबन्धेन कार्यः । स चैवम् - नाभिदेशोद्धवन्नाले ब्रह्मरन्ध्रप्रतिष्ठिते। ध्यातमष्टदले पो तत्त्वमेतत्फलप्रदम् ॥१॥ तत्राद्यपदोच्चारे पद्यस्य कर्णिकायामष्टप्रातिहार्योंपेताः श्वेतावर्णा अर्हन्तो ध्येयाः । द्वितीयपदोच्चारे ललाटोपरिस्थदले सिद्धासनोपविष्टा रक्तवर्णाः सिद्धाः । तृतीयपदोच्चारे दक्षिणकर्णोपरिस्थदले प्रवचनमुद्रया सूरिमन्त्रं स्मरन्तः सुवर्णवर्णाः सूरयः । चतुर्थपदोच्चारे ग्रीवोपरिस्थपश्चिमदले शिष्यानागमं पाठयन्तो नीलवर्णा उपाध्यायाः । पञ्चमपदोच्चारे वामकर्णोपरिस्थदले कायोत्सर्गस्थाः श्यामवर्णाः साधवः । यदि वा पञ्चाऽपि परमेष्ठिनः प्रोक्तपद्यस्थानेषु स्फटिकवर्णा याताः सर्वकर्मक्षयाय सर्वव्याधिक्षयाय भवन्ति । इति केवलिवचः श्रुत्वा राजा विधिना नमस्कारलक्षजापं विधास्यामि इति निश्चित्य केवलिनं नमस्कृत्य साधु त्वया कृतं यदहं परमेष्ठितत्त्वं जापितः, प्रत्युपकारकोटीभिरपि तवानृणो न भवामि इति प्रीतिगिरा मित्रदेवं विसृज्य पुरान्तः समेत्य देशान्तरमायुद्घोषणां कारयित्वा स्वस्थचित्तीभूय सपत्नीकः परमेष्ठिमन्त्रस्य यथोक्तविधिना लक्षजापं eggggggggage ॥१५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy