________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
स्वपूर्वभवमस्मानप्राक्षीत्।
अथ श्रीसूरदेवो राजा केवलिमुखादिति श्रुत्वा चमत्कृतचित्तोऽचिन्तयत्-अहो श्रीनमस्कारस्य महिमा, यद्ध्यानादेवंविधो बालहत्याकारकोऽपि स्वर्ग गतः । तदेतदेव ध्यायते ।। इति विचिन्त्य नमस्कारस्य स्वरूप-फल-जापविधीन् प्रपच्छ; केवली प्राह
रागबोसकसाए इंदियाणि य पंचवि । परीसहे उवसग्गे नामयंता नमोऽरिहा ॥ इत्यादि नमस्कारस्वरूपम् । तथा-इहलोइ अत्थकामा आरुग्गं अभिरई अ निप्फत्ती । सिद्धी अ सग्ग सुकुलप्पञ्चायाई अपरलोए । इत्यादि फलं चोक्त्वा जापविधि स्माह-यः किल पुमान् पवित्रदेहवस्त्रत्रिसन्ध्यं विधिना जिनं पूजयित्वा तदने सुखासननिविष्टः सुश्लिष्टौष्ठपुटो नासाग्रन्यस्तदृष्टिदन्तै रस्पृष्ट दन्तः प्रसन्नवदनोऽप्रमत्तः स्थिरचित्तस्त्रिशुद्धिपालितशीलो विशिष्टतपोनिष्ठोऽखण्डोज्जलपालकसृताक्षतैस्त्रि:कृत्वाष्टोत्तरशतं नमस्कारान् जपति स आस्तां स्वर्गादि सम्पद् परिणामनैर्मल्यवशात्तीर्थकृद्गोत्रमप्युपार्जयति । यश्चानया नियन्त्रणया स्मर्तुं न शक्नोति सोऽपि यथासम्पन्नयुक्त्या लक्षजापं कृत्वा यदि लक्षाक्षतान् देवस्य ढोकयति तदा निर्मलसम्यग्दृष्टित्वं लभते
॥१४॥