________________
श्रीजैन कथासंग्रहः
कुर्वत्सु प्रत्यहं भोक्तारो वर्द्धन्ते; ततस्तेषां सङ्ख्या न लभ्यते, अतो वयं किं कुर्म इति सूपकारैर्विज्ञप्तः सम्यग्धर्म परीक्षां कृत्वा शुद्धश्राद्धानां हृदये काकिणीरत्नेन रेखात्रयं चक्री चक्रे । तत्पठनार्थमार्यवेदान् विधाय षट् षण्मासातिक्रमेषु परीक्षां चाकरोत् भरतेऽथ 1 मोक्षं प्राप्ते तस्याष्टसंतानिभिरादित्ययशोमुख्यैर्भरतार्द्धं भुक्तम् । ते श्राद्धाश्च तथैव भोजिताः । ततोऽपरैरपि तद्वंश्यैः श्रीअजितनाथं यावत् श्राद्धा गौरविताः । ते च मा हन मा हन इति पाठात्काले ब्राह्मणा इति आख्याताः । तेषां वंशेऽसङ्ख्ये काले गते तव पूर्वभवे तव प्रातिवेश्मिकः सोमशर्मब्राह्मणोऽभूत् । यस्य बालाः क्षेत्रे भवद्भ्यां पूर्वभवे शप्ताः । स च विप्रः क्रियावानपि कुसंसर्गान्मांसलुब्धः स्वभार्यां प्रोचे नित्यं मत्कृते मांसं पक्तव्यम् । सा.. च तथा करोति । अन्यदा रात्रौ संस्कृतमयूरमां से मार्जारभक्षितेऽन्यमांसालाभेऽनाथबालं मृतं संस्कृत्य ददौ । विप्रश्चापूर्वास्वादात्तज्ज्ञात्वा महामांसलुब्धः प्रत्यहं बालं घ्नन् राज्ञा निर्वासितोऽरण्ये पलादो जातः । एकदा पथि गच्छतः साधून् हन्तुं धावितः । साधुभिश्च परमेष्ठिपाठात् स्तम्भितः प्रबोधितो नमस्कारं पाठितश्च, हिंसां मुक्त्वा गिरिगुहायां स्थितो लोकैर्ज्ञात्वा हतः परमेष्ठि मन्त्रध्यानात्स्वर्गं च गतः, सोऽयम् । ममैषा कुतो देवर्द्धिरिति ज्ञानोपयोगान्नमस्कारफलं ज्ञात्वाऽत्रास्मान्नन्तुमागतः । त्वां प्राग्भवमित्रं निरीक्ष्य नमस्कारमाहात्म्यज्ञापनार्थं
कामदेव नृपति
कथा ।
॥१३॥