SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः कामदेवनृपति कथा। Museumerememe द्वादशव्रतविचारं भगवान् व्याख्यातवान्। अथ च पृथिवीपतिः सपत्नीकोऽपि महता संवेगरङ्गेण पूर्वभवाऽऽचीर्ण स्वकीयदुश्चरितं सर्व सम्यगालोच्य तादृशेभ्यः पापेभ्योऽपुनःकरणेन निजं मनः सङ्कोच्य केवलिप्रोक्तं, प्रायश्चित्तं प्रतिपद्य सद्यः सम्यक्त्वालङ्कृतं श्रावकधर्म स्वीकृत्य महाभक्त्या भगवन्तं नमस्कृत्य यावत्पुरं प्रति प्रचलति तावत्पुरः प्रादुर्भूतः प्रभूतभूषणभरभासूरः सोऽपि सूरः । सच वयस्य! पश्य पश्य कीदृशः श्रीपञ्चपरमेष्ठिमहामन्त्रस्य प्रभावः, कस्य नाम नाश्चर्य कुरुते विचित्रं मे चरित्रम्, तदागच्छ स्वच्छमते ! भगवन्तमेव पृच्छ, अनपत्यतादुःखस्य जलाञ्जलिं यच्छ। भास्वति सर्वान्धकारतिरस्कारं कुर्वति कोऽर्थः प्रदीपने इति भूपति बाहौ धृत्वा श्रीकेवलिनः प्रदक्षिणात्रयं दत्त्वा भूतलमिलद्भालं भक्त्या भगवन्तं प्रणम्य सम्यग् योजिताञ्जलिः प्रपच्छ निजपूर्वभवोदन्तम् । केवली प्राह "अत्रैव जम्बूद्वीपे भरतक्षेत्रेऽयोध्यायांप्रथमतीर्थकरश्रीऋषभपुत्रः श्रीभरतश्चक्रवर्ती बभूव । स चान्यदा श्राद्धानाकार्याद्यप्रभृति मदावासे भोज्यं नित्यम्, धर्मध्यानं कार्यम् । जितो भवान्, वर्धते भयं, तस्मान्मा हन, मा हन इत्यादि ममाऽऽदर्श रूपं पश्यतोऽग्रे पठनीयम् इत्यादिशत् । तेषु च तथा NON ॥१२॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy