SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः सूचयः स्युः, एवं यत्कर्म जानता जीवेनाऽऽकुट्टिकया कृतं महादुष्टभावेन च भव्यमेतच्चक्रे पुनरपीत्थमेव विधास्यामि इति पुनः पुनः सन्ततमनुमोदितं मनागप्यनालोचितत्वाज्जीवप्रदेशैः सह गाढैकत्वं प्राप्तम् तच्च यथा कृतं तथैव वेदनेन घोरतपसा वा क्षीयते नान्यथा इत्येतन्निकाचितं कथ्यते । भवद्भ्यां च पूर्वभवे रक्षकस्यापि प्रातिवेश्मिकापत्यानि भवन्ति इति दुष्टपापवाक्यानां पुनः पुनर्भणनात्तदनु कदाचिदनालोचितत्वान्निकाचितप्रायमपत्यान्तरायं कर्म बद्धम् । एतच्च बहुतरमेतावत्कालं स्वयमनुभवनादधुना च निन्दागर्हादिपूर्वमालोचनात्कियन्मात्रं क्षीणं शेषं च दशविधप्रायश्चित्तान्तर्गतषष्ठभेदविशिष्टतपोरूपप्रायश्चित्तेन क्षयं यास्यति । तपः प्रायश्चितं च श्री आदिदेववारके उत्कृष्टं द्वादशमासिकम्, मध्यमद्वाविंशतितीर्थंकरवारके ऽष्टमासिकम्, अपश्चिमजिनश्रीवीरवारके षाण्मासिकम् । तवसा निकाइयाण वि कम्माण खओ हवइ नियमा इति ि सर्वज्ञकेवलिवचः । अनुज्ञातं चेदं तपः कर्मनिर्जरार्थम् । नो इह लोगट्टयाए तवमहिट्ठिज्जा, नो परलोगट्टयाए तवमहिट्टिज्जा, नो कित्तिवन्नसहसिलोगट्टयाए तवमहिट्ठिज्जा, नन्नत्थ निज्जरट्ठयाए तवमहिट्ठिज्जा । ततोऽवशिष्टदुष्टान्तरायकर्मनिर्जरार्थमष्टोत्तरशताचाम्लरूपं तपः प्रायश्चितं युवयोर्घटते । तच्च सम्यक्त्वमूलद्वादशश्राद्धव्रतधारिणामतीव सफलं स्यात्, इति सर्वं सम्यक्त्वस्वरूपं कामदेव नृपति कथा । ॥११॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy