________________
'श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
ER
TLANTATTATRTANT
विमुञ्चति ॥१॥किञ्च स्पृष्ट-बद्ध-निद्धत्त-निकाचितभेदाच्चतुर्विधमिदं कर्म, तत्र यथा सूचिकापुञ्जः पृथिव्यां मुक्तः परस्परं स्पृष्टस्तावदेव पिण्डितस्तिष्ठति यावत्कस्य करः क्रमो वा न लगति, तस्मिन् पुनर्लग्ने 'विशरारुभावं भजते । एवं यत्कर्म सोपयोगस्यापि सहसाकारेण लग्नमालोचनामात्रेणाऽपि विलीयते तत्स्पृष्टमुच्यते। स एव सूचीराशिर्दवरकबद्धः करांहिस्पर्शेऽपि न पृथग्भावं याति किन्तु बन्धे छोटिते सति । एवं कथादिप्रमादाज्जातप्राणातिपातादिदोषैर्निबद्धं यत्कर्माऽऽलोचनाप्रतिक्रमणाभ्यां क्षीयते तद् बद्धमुच्यते । स एव सूचीसमुदायो बन्धबद्धो यथा यथा चिरं तिष्ठति तथा तथा तासां काट्टेन मिथो बद्ध इव जातो बन्धे छोटितेऽपि नहि पार्थक्यं प्राप्नोति, किन्तु तैलम्रक्षणाग्नितापलोष्टघर्षणादिबहूपक्र मेण । एवं यत् कर्म धावनवल्गनादिदर्पणोपेत्य करणरूपाऽऽकुट्टिकया वोपार्जितं चिरमनालोचितत्वाज्जीवप्रदेशैः सह गाढं निबद्धं तीव्रपश्चात्तापनिन्दागुरुदत्तघोरषाण्मासादिकादितपसा प्रलीयते तन्निधत्तमभिधीयते । तथा स एव सूचीकलापोऽग्निध्मातो लोहघनकुट्टितो लोहमयपिण्डभावं प्राप्तो बहुनाऽप्युपक्रमेण पृथक्त्वं नैव याति किन्तु यथा लोहपिण्डः कृतस्तथा चेद् भक्त्वा भङ्क्त्वा नवीना घटयन्ते तदा ताः पृथक् पृथक् १ पृथग्भावं
RatatataB
॥१०॥