________________
श्रीजैन कथासंग्रहः
कर्मणा मम देव्याश्चानपत्यतादुःखम् ? केवली प्रोवाच राजन् ! अत्रैव द्वीपेऽत्रैव क्षेत्रेऽचलग्रामे विक्रमः कौटुम्बिको विक्रमदेवी भार्या तयोरपत्यानि प्रातिवेश्मिकब्राह्मणबालैः सह क्रीडन्ति । अन्यदा निष्पन्नकृषिकर्मवोक्षणाय तौ क्षेत्रं गतौ । निजबालैः सह विप्रबालान् फलिकाचिर्भटादि भक्षयतो दृष्ट्वा महाकोपादूचतुः -रे रे ! दुराचाराः केनाऽऽकारिता भवन्तः सर्वमपि क्षेत्रं भक्षितम्, यत्क्रियते युष्माकं तत्सर्वमपि स्तोकम् परं किं क्रियते ? प्रातिवेश्मिकत्वाद्दाक्षिण्यं महत्, रक्षकस्यापि प्रातिवेश्मिकापत्यानि भवन्ति इति । पुनः पुनर्भणनात्सन्तानान्तरायकर्म बद्धम् । अज्ञानभावान्न पश्चात्तापः कृतो न चालोचितम् । ततो गृहं गताभ्यां ताभ्यां कदाचिन्मासोपवासिमुनेर्धृतसिना संयुतं पायसं भावभक्त्या दत्त्वा भोगफलं कर्मोपार्जितम् । तेनेदं युवाभ्यां राज्यं प्राप्तम्, सन्तानान्तरायकर्मणा चानपत्यतादुःखमिति । केवलिवचसा निजं पूर्वभवं श्रुत्वा राजा राज्ञी चाहो अज्ञानभावात्कथं जीवा लीलयैव कर्मबन्धं कृत्वाऽऽत्मानं क्लेशसागरे पातयन्ति ? धिग् धिग् आवाभ्याम्, कीद्दग् दुष्ठु भाषितम् । नातः परं मनसापि कस्याप्युपरि विरूपं चिन्तयिष्यावः । प्रभो ! प्रसादं कुरु, प्रायश्चित्तं देहि, अस्मान्महापापान्निस्तारय इति पुनः पुनर्वदन्तौ मनः शुद्धयाऽऽत्मानं निन्दन्तौ केवलिनं प्रणेमतुः । केवल्यप्यवोचत् सुखेन बध्यते कर्म, तद्विपाकस्तु दुस्तरः । हसन्ती गर्भमादत्ते, रुदन्ती तं
-
कामदेव नृपति
कथा |
11811