________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
9mesgeeeeeggaesents
मूलतोऽप्युच्छिचन्ते सर्वे धर्मकर्ममार्गाः प्रलीयन्ते वर्धमानोत्तरोत्तरमनोरथाः। नश्यन्ति पूर्वजपुण्यप्रबन्धाः । परं किं क्रियते ? न कोऽपि प्रतिमल्लः कर्मणाम् । यदुक्तम्-यद्यावद्यादृशं येन कृतं कर्म शुभाशुभम् । तत्तावत्तादृशं कर्म फलत्येव न संशयः॥१॥ किञ्च-उदयति यदि भानुः पशिमायां कदाचित्, प्रचलति यदि मेरुः शीततां याति वह्निः। विकसति यदि पद्म पर्वताग्रे शिलायां। नच भवति हि मिथ्या भाविनी कमरेखा॥२॥ अपि च, यद्धाव्यं तद्भवत्येव, नाभाव्यं तु भवेत्क्वचित् । वल्मिकादिन्द्रचापः स्यान्न तु रत्नाकरादपि ॥३॥ ततो देवि! मा रोदी:, धीरा भव, मनःप्रसत्तिं भज, सर्व भव्यं भावि, इति राज्ञो वचनं श्रुत्वा किञ्चित्सा रोषेव जगाद देवी-नाच ! मैवमुदासीनं वचोऽवोचः । नहि विचक्षणेन भवितव्यैकचित्तेन भाव्यम् । किन्तु कार्यसिद्धिं वाञ्छता यथोचितोपक्रमः कार्यः । उक्तं च-उपक्रमादेव हि कार्यसिद्धिरुपक्रमादेव कुटुम्बवृद्धिः । उपक्रमादेव हि कष्टमा उपक्रमादेव हितार्थसङ्गः ॥१॥ ततो महाराज ! नैमित्तकान् पृच्छ, तीर्थानि गच्छ, दानानि यच्छ, तपांसि तप्यस्व, मन्त्रान् जनपस्व, कुलदेवतामाराधय, विद्याः साधय, यथा विलीयन्तेऽन्तरायाः, क्षीयन्ते दुष्टकृता माया, उज्जृम्भन्ते कल्याणकथाः, सिम्यन्ति सर्वे मनोरथाः । इति श्रुत्वा जगाद राजा देवि ! युक्तमुक्तम्, तथोपक्रमो करिष्यते, सर्वमनोरथसिद्धिर्भविष्यति इत्येवं वदति भूपालेऽनाहतगम्भीरदुन्दुभिध्वनिरारामदेशोपरि बभूव
ashisisatara
॥७॥