________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
५५५५५५५५५५५५५५009
मुकुलितमुखी पूर्ववदेवास्तोकशोकक्लेशमनु- भवन्ती योजिताञ्जलिः पुरतः पाञ्चालिकेव निश्चलाऽतिष्ठत्।
अथ राजा निजवस्त्राञ्चलेन राज्ञीनेत्रे प्रमाय स्नेहसारया सुधामधुरया वाचा प्रोवाच-देवि! कोऽयमाकस्मिकः शोकः ? न पश्यामि खलु मनागपि शोकहेतुम् । यतस्तव पितुर्गृहे कुशलिनी मातापितरौ, विजयिनो बान्धवाः, सुखवान् सकलस्वजनलोकः । अत्राऽपि मयि सुप्रसन्ने को नाम किङ्कर इव तवादेशं नो कुरुते? को नाम मनसाऽपि त्वयि वैरूप्यं चिन्तयति ? के नाम मनोरथास्तव न पूर्यन्ते ? एवं सति वद देवि ! किं ते दुखम् ? यदेवं बाष्पहतदर्पण इव दृश्यते विच्छायवदनम्, जलक्लिन्नवस्त्रादिव गलन्ति नेत्रद्वयादश्रुबिन्दवः, दवानलाश्लिष्टकाष्ठमिव दन्दह्यते हृदयम्, ग्रीष्मातपतप्तवालुका इव जाज्वल्यन्तेऽङ्गानि, निद्रां गतस्येव धत्ते शून्यतां मनः, तदाऽऽशु मुच मौनम्, ब्रूहि शोककारणम् । इत्येवं महाऽऽग्रहपूर्वकं पुन: पुनः पृच्छति पृथ्वीनाथे निःश्वस्य गद्गदस्वरं कश्चमप्युवाच देवो-हा निष्पुत्राऽहं मन्दभाग्या इति । तच्च श्रुत्वा निर्मलदर्पणतले पुरःस्थपदार्थवत् तत्कालं हृदये सङ्क्रान्तसकलदुःखश्रीसूरदेवः सुचिरं विमृश्य स्नेहलया दृशा दुग्धधारयेव सिजनुवाचदेवि ! प्राणप्रिये ! अहमपि जाने आत्मीये महाशल्यमेतत् । यत:-कुलदीपकमेकं नन्दनं विना.
HERE
॥६॥
MITTEE