________________
श्रीजैन कथासंग्रहः
पक्ववा' लुकमिव स्फुटति मे हृदयं महादुःखेन, किं करोमि ? क्व गच्छामि ? कस्याग्रे कथयामि ? हा मातः ! किमहं जाता ? हा पितः ! पालिताऽस्मि किम्। हा भर्तः ! परिणीता किं यदेव दुःखिताऽभवम् ॥१॥ झोली त्रुटी कि न मूइ कि न हूअ छारह पुंज। न सहत जिम हूं एवडी दूष दवामल गुंज ॥ २ ॥ इत्यादिमहाशोक सङ् कुलचित्ता चिन्ताकल्लोललो लितजीविता महाऽऽर्त्त ध्यानपतिता भूमिकानिवेशितदृष्टिः करतलन्यस्तमुखी पादाङ्गुष्ठेन पृथिवीं खनन्ती दीर्घोष्णनिः श्वासैरोष्ठसम्पुटं धम स्थूलस्थूलाश्रुधाराभिर्भूतलं सिञ्चन्ती यावता सूरकान्ता राज्ञी महादुःखमनुभवति, तावता तस्याः परिवारमुखेन तत्पट्टमहादेवीदुःखं विज्ञाय विच्छायवदनः समुत्सुकमनाः सूरदेवों राजा झटिति सिंहासनं मुक्त्वा त्वरितत्वरितपदैस्तत्र समागतो, दुःखपूरपूरितचित्तामधोमुखीं देवीं निरीक्ष्य करे धृत्वा पुरः स्थित्वा हा देवि ! कस्मादकस्मादसावेतावान् शोकः क्रियमाणोऽस्ति इत्यवादीत् । राज्ञी च महादुःखचिन्तासङ्कुचितलोचने सहसोन्मील्य पुरः स्थितं प्राणप्रियं विलोक्य हा ! पादावधारितः पृथ्वीपतिरपि न ज्ञातः शून्यतया, न च कुलस्त्रीसमुचितोऽभ्युत्थानादिविनयः सत्यापितः, इति दग्धोपरि स्फोटकतुल्यं दुःखोपरि दुःखं बिभ्रती सहसाऽभ्युत्थाय प्राणप्रियपादयोर्लोचने दत्त्वा सूर्यास्ते कमलिनीव १ काकडी
कामदेव नृपति कथा |
॥५॥