________________
श्रीजैन कथासंग्रहः
कामदेवनृपति
कथा।
महादुःखाऽऽर्ता मनस्येवं चिन्तयामास । धन्याऽसौ तिरश्च्यपि कुक्कुटी, या सदा निजापत्यक्रीडासुखमनुभवति । यतः- ते धन्ना जाण घरगणम्मि दीसंति धूलिधवलाई। उठेंत पडत रडंत चेव दोतिन्नि डिंभाई॥१॥अथवा-यत्र नास्ति गुणगौरवपूजा, यत्र न स्वजनसङ्गतिरुच्चैः । यत्र नो लधुलघूनि शिशूनि, हन्त तान्यपि गृहाणि गृहाणि ॥ २॥ किन-अपुत्रस्य गृहं शून्यं, दिशः शून्या हबान्धवाः । मूर्खस्य हृदयं शून्यं, सर्वशून्यं दरिद्रता ॥३॥ तोयं विना तटाकः, सुरेन्द्रं विना नाकः, न्यायं विना भूमान, दानं विना श्रीमान्, विनयं विना शिष्यः, पत्र-पुष्प-फलानि बिना वृक्षः, प्रज्ञां विना छात्रः, जीवं विना गात्रम्, प्राणं विना यथा न शोभते वदनं, तथा पुत्रं विना सदनम् । अतः सर्वथा मन्दभाग्याऽहम्, याऽनेकभूपालप्रणतपादारविन्दमहानरेश्वरप्रसादपात्रमपि भूत्वा चिन्तितमात्रोपस्थितसकलवस्तूनि लभमानाऽपि मनागपि नापत्यसुखं प्राप्नोमि। ततः किं कार्य प्राज्येन राज्येन ? किं कार्यमनेकसारनिवेशेन महादेशेन ? किं कार्य मनोहारेण नगरेण ? किं कार्य सर्वसुन्दरस्वरूपेण रूपेण ? किं कार्य कल्पगुमानुवादेन महाराजप्रसादेन ? किं कार्यमुदारैः शृङ्गारैः ? किं कार्यमनुकूलैः दुकुलैः ? किं कार्य सर्वरागमूलस्ताम्बूलैः ? किं कार्यमपरैरपि स्फारलङ्कारैः ? किं कार्य स्नेहगेहेन देहेन ? हा किं कार्य भव्येनापि जीवितव्येन ? सर्वथा न शक्नोमि क्वाऽपि स्थातुम्, .
५000५५५५५02028
॥४॥