SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः कामदेवनृपति कथा। जायतेऽस्माद्व्यवस्थितिः ॥१॥ किञ्ज-पञ्चानामपि ज्ञानानां मध्ये श्रुतज्ञानमेव देवदानव - मानवप्रतिबोधकारित्वान्मुख्यम्, तच्च पुस्तकगजाधिरूढमेव राजलीलामनुभवज्जगति विजयते । उक्तञ्च-जाता पञ्च मतिश्रुतावधिमनःकैवल्यपुत्राः प्रभोः, तन्मध्ये श्रुतनन्दनो भगवता संस्थापितः स्वे पदे। अङ्गोपाङ्युतश्च पुस्तकगजाध्यारोहलब्धोदयः, सिद्धान्ताभिधभूपतिर्गणधरामात्यश्चिरं नन्दतात् ॥१॥ अतो ज्ञानस्य पुस्तकस्य च यथाशक्ति भक्तिः कार्या । यथाऽमुत्र परत्र च सर्वसौख्यसम्पत्तिः स्यात् । सकलकलाश्च विलसन्ति । यश्च ज्ञानपुस्तकयोराशातनां करोति, स निबिडज्ञानावरणीयकर्म बद्ध्वाऽनेकदुःखविभागी महामूर्खच जायते, यथा कामदेवः । यदि च पश्चादपि ज्ञानपुस्तकयोर्भक्तिं करोति तदा सुखी भोगी विद्वांश्च भवति, यथा स एव कामदेव: पश्चात्प्रौढराज्य-प्रताप-विद्या-कलापात्रं जातः । तथा यदि कोऽपि जीवो जन्मतोऽपि यावज्जीवं सर्वप्रकारानमाराधयति तदा सर्वदैव स सर्वसौख्यपात्रं स्यात् महाप्राज्ञश्च, यथा कामदेवस्यैव भार्याऽभङ्गुरभाग्या सौभाग्यमञ्जरी। तथाहि .. अत्रैव जम्बूद्वीपे भरतक्षेत्रे श्रीपञ्चमतीर्थकरश्रीसुमतिनाथवारकेऽयोध्या नाम नगरी वर्तते। पूर्व प्रभुश्रीऋषभस्य राज्य-प्राज्यप्रतिष्ठासमये निरीक्ष्य। विनीतलोकान् भरते विनीतेत्याख्यां पुरीं स्थापितवान् हरिम् ॥१॥असंख्यकालेऽतिगते विपक्ष-लक्षैरयोध्यस्फुटवीरकोटेः । निवासभावादथ साप्ययोध्ये- . SeareARANCCaMURARMANENERANCE ॥२॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy