________________
श्रीजैन कथासंग्रहः
श्रीहरिश्चन्द्रकथानकम्।
॥३८॥
अन्यत्रोद्धतोपसंहारः - .. अन्येधुर्बहिरुद्याने, गतः क्षोणिपतिः स्वयम् । तीर्थ शक्रावताराख्यं, जीर्ण शीर्ण व्यलोकयत् ॥१॥ वसुभूतिरुवाचाथ, ज्ञात्वा चेतो महीभुजः । इङ्गिताकारतत्त्वज्ञा, मन्त्रिणः सर्ववेदिनः ॥ २॥ वृषभस्वामिनो बिम्ब, भासुरंशक्रनिर्मितम् । इदंशक्रावताराख्यं महातीर्थ महीतले॥३॥ कालक्रमादिदं जीर्ण, बभूव क्षितिनायक!। उद्धारकारिणो यस्मात्, प्रभवन्ति भवादृशाः ॥ ४॥ भवानप्यादिमजिनसन्ताने समजायत । कुरुष्वेदं नवं तीर्थ, देहिनं रसवेदिवत्॥५॥ भरतेशादित्ययशः-प्रभृतीनां महीभुजाम् । स्वपूर्वजानामाख्याभिः ख्याता: स प्रतिमा व्यधात् ॥६॥ अमारिपूर्वकं भूरि, दानसंप्रीणितार्थी च । प्रतिष्ठां कारयामास, चैत्योद्धारमकारयत् ॥ ७ ॥ सम्यक्त्वं निर्मलं बिभ्रद्, विदधानः प्रभावनाम् । कालक्रमेण शुद्धात्मा, देवभूयमगादयम्॥८॥
इति सत्त्वोपरि सत्यवादिहरिश्चन्द्रकथानकम् ।