SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीहरिश्चन्द्रकथानकम्। ॥३७॥ शूकरोदन्तमारभ्य यावदद्य नरेन्द्र ! यत् । अनुभूतं त्वया विद्धि तदस्मत्कूटनाटकम् ॥ ४६५॥ एतत् सर्व भवत्सत्त्वपरीक्षारसिकैः खलु। अस्माभिर्विहितं तत् ते क्षन्तव्यं महतां गुरो !॥ ४४६ ॥ चित्रं परोपकाराय मत्यत्वेऽपि भवादृशाम् । अवतारः परोत्तप्त्यै स्वर्गेऽप्यस्मादृशां पुनः ॥ ४६७ ।। किं वा कोऽपि गुणोऽस्माकमपि ते सत्त्वदीपनात् । सुवर्णस्य कथं रेखा कषपढें विना भवेत् ? ॥ ४६८ ॥ तव सत्त्वेन सत्येन हरिश्चन्द्र ! महानृप! । जलदो वर्षति स्फीतशस्या भूर्मुदितो जनः ॥ ४६९ ॥ स्वस्यैव सुकृतेनेदं राज्यमपि पुनस्त्वया । अस्मत्तः परितुष्टेभ्यः किञ्चिद् याचस्व साम्प्रतम् ॥ ४७० ।। लजितस्त्रिदशोपज्ञवर्णनाकर्णनाद् नृपः । उवाच न कदाऽप्यस्मि शिक्षितो याचितुं परम् ॥ ४७१। किञ्च सत्त्वं न मुक्तं स्वं सूर्यवंशो न लजितः । सत्यवाचः कृतश्चन्द्रः किमतः परमर्थये? ॥ ४७२ ॥ पुनरप्यूचतु देवौ नृप! तन्वन् यशः सितम्। दिव्यशक्तिः श्रियां पात्रं सदाऽऽनन्दमयो भव ।। ४७३ ।। प्रभावमिति तो तत्र न्यस्य स्वास्पदमीयतुः । इन्द्रोऽपि परमां प्रीतिमवाप ससुरासुरः ॥ ४७४ ॥ राजाऽथ श्रीहरिश्चन्द्रस्तत्प्रभृति विशेषतः । दयालुर्जगदानन्दस्त्यक्तव्यसनकौतुकः ॥ ४७५ ॥ शक्रावतारतीर्थस्य सर्वज्ञस्य कृपानिधेः । श्रीवृषध्वजदेवस्य पर्युपास्तिपरायणः ॥ ४७६ ॥ दिव्यशक्तिप्रभावेण गगनक्रीडनादिकम् । महदि दर्शयन् लोके पालयामास काश्यपीम् ॥ ४७७॥ (त्रिभिर्विशेषकम्) ॥३७॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy