________________
कथासंग्रहः
श्रीहरिश्चन्द्रकथानकम्।
॥३६॥
अमान्तकान्तिरलाइहारस्फारश्रियं मुदा॥५१॥ वसुभूति महामात्यं कुन्तलाख्यं च सेवकम् । द्वावप्येतो स्वस्वरूपी पुरोऽद्राक्षीत् कृताञ्जली॥५२॥ यवनिकान्तरे चैव द्रष्टुं नाटकमागताम् । सुतारां भाषमाणां च सख्या शुश्राव भूपतिः ॥ ४५३ ॥ पुरतश्च सुसङ्गीतरसनिमग्नचेतसाम् । नृपा-ऽमात्यप्रभृतीनामपश्यत् संसदं निजाम् ॥४५४॥ प्रतिमन्दिरमैक्षिष्ट क्रियमाणंच नागरैः । नृत्यत्पुरन्धिविश्राण्यमानदानमहोत्सवम् ॥५५॥ प्रतीहारमुख प्राप्तान् विजिज्ञपयिषून् जनान् । दूरतो नमतः प्रेक्ष्य किमित्येतदचिन्तयत् ॥ ४५६ ॥ किं नु स्वप्नो मया दृष्टः किं वा मे मनसो भ्रमः । किंवा कस्याऽपि देवस्य-चित्रमेतद् विजृम्भितम् ॥ ४५७ ।। ततश्च प्रकटीभूय चन्द्रचूड-मणिप्रभो । पुरः स्थित्वा सुरौ राज्ञः सहर्षमिदमूचतुः ।। ४५८ ॥ त्रिशनन्दन ! श्रीमदिक्ष्वाकुकुलमण्डन ! भरतान्वयभूपाल ! हरिश्चन्द्र ! चिरं जय ॥ ४५९ ॥ धन्यः सुग्राह्यनामा त्वं यस्य वास्तोष्पतिः स्वयम् । सत्त्वं स्तवीति मूर्धानं धुनानो चुसदां पुरः ॥ ४६० ॥ यादृशः कथितो राजन्नचाल्यो दुसदामपि । शक्रेण, तादृगेवाऽसि सात्त्विकेषु शिरोमणिः ॥ ४६१ ॥ माहात्म्येन तवैवेदं पुन: राज्यं तथैव हि । अढौकत निजस्फीत्या निर्जिताऽमर-दानवम् ॥ ४६२ ॥ वसुभूतिः स एवाऽयं मन्त्री मित्रं च ते नृप! । शुकरूपः प्रविश्याऽग्नौ यो देव्याः शुद्धिमातनोत् ।। ४६३ ॥ कुन्तलश्चैष ते सेवां करोति रचिताञ्जलिः । जम्बूकीभूय ते होमसङ्कटे यस्तदारटत् ॥ ४६४ ॥
॥३६॥