________________
श्रीजैन कथासंग्रहः
श्रीहरिश्चन्द्रकथानकम्।
॥३५॥
नीचदास्यं सुतव्ययम् । हरिश्चन्द्रोऽखिलं सोढा देवी त्वेकसुता हता॥ ४३८ ॥ किन मे वक्ष्यतो हस्ती पुत्रवस्त्रातौ कथम् ? । स्वाम्यादेशमकतु च नैवीजस्वि मनो मम ॥ ४३९ ॥ अथवा पुत्रमृत्यौ को मे विचारो यदस्म्यहम् । श्वपचाधीनदेहस्तत् स यद् ब्रूते करोमि तत् ॥ ४४०॥ अन्यथा स्यां प्रतिज्ञातभ्रष्टः सत्त्वकलखितः। सत्त्वकतानवृत्तीनां नाऽपत्याद्यनुरागिता॥४१॥ व्यापन्नस्य सुतस्याऽस्य न गृह्णाम्यम्बरं यदि। निर्वाहयामि नो सन्थां लजते तरणिस्तदा॥४२॥ इति सत्त्वानिलोद्भूताऽपत्यबन्धः स सात्त्विकः । भूत्वा पराङ्मुखोऽशक्तो याचितुं स्फुटया गिरा॥४३॥ अर्पयाऽऽच्छादनमिति सज्ञया प्रतिपादयन् । हस्तं प्रसारयामास हरिश्चन्द्रः प्रियां प्रति॥४४४ ॥ सुताराऽपि च तदभिप्रायं स्फुटमजानती। उच्चिक्षेप करे दातुं रोहिताश्वं मुहुर्मुहुः ॥ ४५ ॥ अगृह्णति हरिश्चन्द्रे पुत्रं साऽऽह ब्रवीषि किम् ? । न जानामि तवैतां हि संज्ञां ब्रूहि ततः स्फुटम् ॥ ४४६ ॥ धैर्यसन्दंशकाकृष्टवचनः सात्त्विकोऽवदत् । देवि ! तिष्ठतु वत्सोऽयं वत्साऽऽच्छादनमर्पय॥ ४४७॥ यावदेवं हरिश्चन्द्रो वदत्यात्मप्रियां प्रति। तावत् तस्य शिरस्याशु पुष्पवृष्टिरभूद् दिवः ॥ ४४८ ॥ अहो ! सत्त्वमहो ! धैर्य हरिश्चन्द्रमहीपतेः । एवमुद्घोषणापूर्व दुन्दुभिध्वनिरत्यभूत् ॥ ४९ ॥ राजाऽप्यपश्यदात्मानमयोध्यायां निजौकसि । अलङ्कतमहासिंहासनं स्वसदसि स्थितम् ॥ ४५० ॥ रोहिताश्वमपश्यच्च क्रोडे क्रीडन्तमात्मनः ।
॥३५॥