________________
श्रीजैन कथासंग्रहः
॥३४॥
आलम्बेन जीवन्त्या भविता काऽद्य मे गतिः ? ।। ४२५ ।। हरिश्चन्द्रोऽपि विज्ञाय सुतारां त्वरितो व्रजन् । मुञ्चन्नश्रूण्यथोऽवादीद् निन्दन्नात्मानमात्मना ।। ४२६ ।। निर्भाग्यशेखरे ! देवि ! वज्रघातः क एष नौ ? । वनिता वीक्ष्य भर्तारं तारं तारं रुरोद सा ।। ४२७ ।। हरिश्चन्द्रोऽप्यरोदीच्च धैर्य कस्य सुतव्यये ? । रोहिताश्वं हरिमोहादाश्लिष्यत् किल पूर्ववत् ॥ ४२८ ॥ सुतारां प्राह देवि ! त्वं किं रोदिषि तथा कथम् ? । वत्सो मां भाषते नैव भवत्या रोषितः किमु ? ।। ४२९ ।। किं त्वया मोदकं नास्मै दत्तः किं परिधापित: ? । नाऽद्य रत्नाङ्कितं हारं किं हस्ती नाऽर्पितो मया ? || ४३० || क्षमस्व वत्सलो हि त्वं स्वेच्छया यत् तु रोचते । इति स्वं सान्त्वयन् पुत्रं देव्याऽसौ परिदेवितः ।। ४३१ ।। किं न पश्यसि मूढ ! त्वं गतासुं तनयं निजम् । गतासुश्च कथं पश्येदाश्लिष्येन्निगदेदथ ? ।। ४३२ ।। किमारब्धं त्वया सार्धं नार्या किं नैषि सत्वरम् ? । इत्युक्तः श्वपचेनाऽसौ भयाच्चैतन्यमासदत् ।। ४३३ ।। अज्ञासीच्च मृतं पुत्रं चेष्ट्वाऽथाश्रुलोचनः । सुतारां पुत्रवृत्तान्तमप्राक्षीत् साऽप्यचीकथत् ॥ ४३४ ॥ अथाऽयं प्रातरेवा गाः समित्पुष्पकृते वने । विप्रेण प्रेषितो मन्दभाग्यो दष्टोऽहिना प्रिय ! ।। ४३५ ॥ विनाऽऽत्मीयान्न कोऽप्यस्य विषस्योत्तारणं व्यधात् । विना बन्धुं जगच्छून्यं जीवो धर्म विना यथा ।। ४३६ ।। हरिश्चन्द्रस्ततो दयौ धिग् मां व्यसनपातिनम् । एकत्र श्वपचः क्रुद्धोऽन्यत्र पुत्रव्ययक्लमः ।। ४३७ || प्रवासोऽरिपुरीवासो
श्रीहरिश्चन्द्रकथानकम् ।
||३४||