SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीहरिश्चन्द्रकथानकम्। ॥३३॥ । व्यापादयता निर्भाग्याऽभीष्टाऽपत्या त्वसौ हता॥ ४१२ ।। अहो! असारः संसारो मर्त्यवाचामगोचरः।। यदिष्टं देहिनां तत् तु ग्राहयत्येव यो यमात् ॥ ४१३॥ कथं चाऽहं ग्रहीष्यामि बालस्योर्ध्वाद् किलाम्बरम् ? इति मन्दपदः प्रोक्तः श्वपचेनाशु गच्छ रे!॥४१४॥ सभयं परिचक्राम हरिश्चन्द्रः सुतं स्मरन् । शुध्येद् यदि देवी मे तदा वत्सो म्रियेत सः॥ ४१५॥ ततः शुश्राव करुणं रुदर्ती वनितामिति । निर्भाग्यशेखराया मे मृतो वत्सो हताऽस्मि हा! ।। ४१६ ॥ वत्सो मृत इमां वाचं प्रतिघ्नन् मङ्गलोक्तिभिः । वामाक्षिस्पन्दनेनाऽथ बभूवाऽऽशमिानसः ॥ ४१७ ॥ सर्वस्वं मुनये दत्तं विक्रीतौ दयिता-सुतौ चण्डालकर्मकर्ताऽहं किं मे वा भाव्यतः परम् ?॥४१८॥ इति चिन्तातुरो यावद् मार्गे याति नृपस्ततः। चाण्डालपतिना प्रोक्तो व्याघुट्येति व्यजिज्ञपत् ।। ४१९ ॥ आगतोऽस्ति मृतो बाल इति वस्त्राऽऽहती त्रपा । स प्राह का पाऽस्माकमाचारोऽयं गृहाण तत् ॥ ४२० ॥ निवृत्त्याऽथ हरिदध्यौ धिग् लोभं यद्वशाजनः । वेत्ति कृत्यमकृत्यं वा नैव दैवहतो हहा!।। ४२१॥ यदादिशति मे स्वामी तत् कर्तव्यं मया खलु । विचारो युज्यते नैव स्वाम्यादिष्टेऽनुजीविनाम् ॥ ४२२ ॥ स गच्छन्निति शुश्राव स्वीविलापं तमुच्चकैः । हा! हा! पुत्र! त्वमेको मे तन्मे मृत्युस्त्वया सह ॥ ४२३॥ त्वं ममैवाऽसि कुपितोरे! दैव! यत् पतिर्मम । बभूव कर्मकृन्त्रीचगेहेऽहमपि तादृशी॥ ४२४ ॥ परमस्य स्वपुत्रस्य भरतान्वयशालिनः । ॥३३॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy